________________
काव्यकल्पलतावृत्तिः
पूर्णिमेन्दुरिति, सितच्छाय इति वर्णेन सद्वृत्त इत्याकारेण, अम्बरभूषणमित्याधारेण, कलाकलित इत्याधेयेन, नयनानन्दन इति क्रिया च विशेषणमिति । तथा 'तुल्यश्रिये' त्यस्य श्लोकस्यार्थेन कृतानि विशेषणानि परिमलाद् ज्ञेयानि । का. क. गुणाद्वर्ण्यवर्णादेः परतः श्रीशब्दस्तथैतदुपलक्षणात् लक्ष्मीच्छायाशोभाकलाकान्तिभावप्रत्ययादयः कार्याः । ततस्तत्परतः समासेन युतार्था भ्राजिरोचिष्णुद्योतितार्थादयश्च । क्वापि श्रीप्रभृतिशब्दान् विनापि केवलगुणादेव परतः, तथा क्वचिदसमासेनापि युतार्थादयो योज्याः । यथा-
शोणश्रीसंतो
भानुवृ त्तलक्ष्मीसमन्वितः । अंशूनां शोभया कीर्णो गगन स्थितिसङ्गतः ॥
श्यामलद्युतिविभ्राजी
गजरोचिष्णुवैभवः ।
विद्युता द्योतितः प्रीतिं स्तनयित्नुस्तनोत्यथम् ॥
तुल्यादमी सहजिष्णुमुख्या: पूर्व जितादयः ||२१||
तुल्याद् वर्ण्यस्य वर्णादिभिः समानात् परतोऽमी पूर्णोक्तरीत्या युतार्थाद्यास्तथा सद्गर्थाश्च जिष्णुजैत्रजयिजित्वरजिन्मुख्याश्च तथैतदुपलक्षणात् स्पधिधिक्कारिनिर्भर्स' कपिडम्बनतर्जकादयो योज्याः । तथा तुल्यात्पूर्वं जित भत्सितfastor- धिक्कृतन्यक्कृत-निः कृत- पराभूत- अवहेलितअवगणित अपमानित - तिरस्कृत - अधः कृत्तत्तर्जित्तादयो योज्याः ।
यथा-
चन्द्रश्रीसंयुता कीर्त्तिः कर्पूरभ्राजिवैभवा ।
यस्य गगोमिरोचिष्णुः कुन्दश्रीद्योतिता बभौ ।। कैलाससदृशं रेजे विष्णुशङखांशु जिष्णुभम् ।
यशो विधुधिक्कारि तुषाराद्रिविडम्बनम् ॥ जितपार्वणशीतांशु पराभूतभवाचलम् ।
निर्भर्त्सित तुषाराद्रि भा ( र्भा ) ति भूप भवद्यशः ।।
इति श्री जिनदत्तसूरिशिष्य महाकविश्रीमदमरचन्द्रविरचितायां काव्यकल्पलताकविशिक्षावृत्तौ छन्दः सिद्धिप्रताने प्रथमेऽनुष्टुप्रशासनः स्तबकः प्रथमः ।
म. टी.
एकस्मिन्नपि वर्ण्ये पृथक् तुल्यपदार्थेभ्यः प्रयोजितैरेभिः चार्वादिपदैर्विशेषणानि स्युः । यथा -- ' भवद्यशोभरो भाति' इत्यत्र 'तुषाराद्रिर्हिमाचल:', 'शेषमित्रं नागराजमित्र' इति । गुणादिति युतार्थाः समन्विताद्याः । शोणश्रीत्यादिअत्र पूर्वाद्विये वर्णाकारविशेषणरूपे वर्णाकारपुरः स्थात् श्रीशब्दात् लक्ष्मीशब्दात्, संयुतसमन्वितशब्दौ योज्यौ | तृतीयां हावाधेयविशेषणरूपे त्वसमासे, तच्चतुर्थं (र्थ्याः ) ह्रावाधारविशेषणरूपे केवलाधेयात् । श्यामलेत्यादि - अत्रपूर्वां समासेन गुणपुरस्थद्युतिशब्दाद् विभ्राजी; द्वितीयांह्रौ केवलगुणात्समासेन; तृतीयां ह्रावसमासेन । तुल्यादमी इतिउपमानादपि अमी पूर्णोक्ता यत्तभ्राजिप्रमुखाः । यथा - 'चन्द्रश्रीसंयुते' त्यत्र श्लोके तुल्यात् सदृगर्थाः । यथा-'कैलाससदृशंरेजे' ।। छ ॥
Jain Education International
तुल्या जिष्णुमुखा, यथा-- ' विष्णुशंखांशुजिष्णुभं' इत्यादि । पादत्रये तुल्यात्पूर्वं जितादयो, यथा-- ' जितपार्वणशीतांशु' श्लोके -- पार्वणशीतांशुः पूर्णिमेन्दुः भवाचलः कैलासः ।
इति श्रीतपागच्छाधिनायकपातसाहिश्री अकब्बरप्रतिबोधदायक पुरन्दरभट्टारक श्री पू. हीरविजयसूरीश्वर शिष्य पण्डितशुभविजयगणिविरचित्ते काव्यकल्पलतावृत्तिमकरन्दे छन्दः सिद्धिप्रतानप्राप्तानुष्टुप् शासनस्तबकोद्योतकः प्रथमः प्रसरः ॥१॥ छ ॥
For Private & Personal Use Only
www.jainelibrary.org