________________
काव्यकल्पलतावृत्तिः
अग्य ं तूपरिवदिति-अग्रेतनमुपरितनपंक्तिवद् द्वितीयादिपंक्तिषु लिखेत् । तथाऽपि कृते यत्र द्वितीयादिपंक्तिध्वेकमात्रावशिष्यमाणा क्यात् तत्र 'लघुं तूने' इतिवचनात् हस्वादिपृष्ठे ह्रस्वं लिखेत् । यत्र तु मात्राद्वयमवशिष्यमाणं तत्र 'आदौ गुरु' इति वचनाद् हस्वात् पृष्टे आदिभूतं वक्ररेखारूपं गुरुमेव । यत्र च मात्रात्रयमवशिष्यमाणं तत्र 'आदौ गुरु लघु तूने' इतिवचनाद् ह्रस्वात् पृष्ठे गुरुं, तद्गुरोः पृष्ठे च ह्रस्वम् । यत्र मात्राचतुष्टयमवशिष्यमाणं तत्राप्यादौ गुरुमिति वचनाद् ह्रस्वात् पृष्ठे गुरुद्वयमेव । यत्र च मात्रापञ्चकमवशिष्यमाणं तत्र पूर्ववद् ह्रस्वात् पृष्ठे गुरुद्वयं, तत्पृष्ठे च ह्रस्वम् । एवमग्रेऽप्यनया रीत्या मात्राजातिषु सम्भवाद् यथासम्भवाल्लिखेत् स्थापयेदित्यर्थः । अत्र द्विमात्राद्याद्यपंक्ति स्थापनरीतिर्यथा--सममात्रायां प्रथमपंक्तौ गुरुं वक्ररेखारूपं गुरून् वक्ररेखारूपांश्च; विषममात्रायामाद्यपंक्तौ चाद्यह्नस्वापरगुरूंऋजुवक्ररेखारूपौ, आद्यह्नस्वापरगुरूंश्च ऋजुवक्ररेखारूपान् स्थापयेदिति दिग् ।
८
अथ लघुगुरूस्वरूपमाह-
एकमात्रेति स्पष्टम् । स्थापना यथा - अह्रादीति - समस्तव्यस्तसंग्रहात् हसंयोगे हसंयोगे रसंयोगे च न गुरुः । आदिशब्दाद्यथादर्शनम् । क्लादिसंयोगे च यथा तव हियापहियो मम हीरभू” तृइत्यस्य व्याख्या । चन्द्रग्रहणे तमसि प्रिये ! त्वं मया न धृता न गृहीता, पुनस्तत्त ( त्स ? ) मः क्व कदा समागमिष्यतीति कन्दर्पदर्पपीडितवचः । तथा धनं (न) प्रदानेन श्रुतेन कर्णावित्यादि । तथा
लीलासिताब्जमुत दर्पणमानपत्रं किं दन्तपत्रमथ किंशुकमौलिरत्नम् ।
किं चामरं तिलकबिन्दुरथेन्दुबिम्बमेतद्दिवोऽनिह, नुतदीप्तिमुदेन कस्य ॥ १ ॥
अत्र दर्पणशब्दः क्लीबेऽपि दृश्यते; दन्त्रपत्रं ताडंक: कर्णाभरणमिति यावत् । आकाशवाचकस्थ दिवः स्त्रीत्वाल्लीलासिताब्जादयो धर्मा अत्र वर्णिताः । अनि नुतदीप्ति प्रकटदीप्ति इन्दुबिम्बं कस्य मुदे हर्षाय न भवति इत्यर्थोऽत्र fare शुक्ल ह हादिवर्णेभ्यः पूर्ववर्णस्य लघोर्गुरुता न जातेत्यभिप्रायः । तीव्रप्रयत्नोच्चारे तु ह्रादावपि प्राग् लघुर्गुरुर्भवति । यथा -- बर्ह भारेषु केशान् वा, सुप्तमीन इव हृदः, इत्यादि प्राकृतेऽपि यथा --
जह हाउं ओइन्ने अब्भुत्तमुल्लसियमंसुयद्वते ।
तह य न हाओसि तुमं सत्थे गोलानई तूहे ॥ १ ॥
व्याख्या । जह यथा हाउं स्नातुं ओइण्णे अवतीर्णः, अब्भुत्तं अभिषिक्तं, उल्लसियमुत्सृष्टं, तूहे तीर्थे, अंसु द्वंतं अंशुकपर्यन्तं 'अद्वंतो पेरंते' इतिवचनात् । सात्त्विकभावादुद्वृत्तशफरीं दृष्ट्वा चकितो न स्नात इति सण्टकः । पादान्ते इति--कतिपयेष्विन्द्रवज्रा वसन्ततिलकादिछन्दस्सु पादान्ते लक्षणोक्तगुरोः स्थाने लघुरपि प्रयुज्यते तस्य च लघोर्गुरुत्वं वा प्रतिपद्यन्ते । वंशस्थादिषु छन्दस्सु पुनः पादान्ते गुरुस्थाने प्रयोजितलघोर्गुरुत्वं न स्यात् । यदाह-
वंशस्थकादिचरणान्त निवेशितस्य गत्वं लघोर्न हि तथा श्रुतिशर्मदायि ।
Jain Education International
श्रोतुर्वसन्ततिलकादिपदान्तवत्ति लोर्गत्वमत्र विहितं विबुधैर्यथावत् ।। १ ।।
एवं मात्र छन्दः स्वपि ज्ञेयम् । यत्तु प्राकृते इंहिंउं हुं हंकाराणां नित्यं तदेकारौ कारयोर्वा पादान्ते लत्वं वदन्ति अपभ्रंशे चापदान्तयोरपि वर्णस्थैकारौकारयोरुच्चारणवशाल्लाघवं वदन्ति तदेतदत्र; वा पादान्ते इत्यत्र वेति व्यवस्थितविभाषास्मरणादवगतमिति । विशिष्टोऽर्थो वर्णाकारेत्यादि, वर्णेनेत्यादिष्वेकं पदार्थमाश्रित्यैकवचनं, सर्वपदार्थापेक्षया तु बहुत्वं ज्ञेयम् । परिवारादिभिरित्यत्र पितृमातृभ्रातृपतिपत्नीपुत्रादिसम्बन्धिनः स्वामिमित्रपार्श्वस्थवाहनादिसंपर्कणश्च परिवारः । आदिशब्दादुष्णत्वं शिशिरत्वं, कटुत्वं मधुरादिरसत्वं, दुर्गन्धत्वं सुगन्धत्वं कुरूपत्वं सुरूपत्वं; लघुत्वं गुरुत्वं ; दूरस्थत्वं समीपस्थत्वं; कर्कशत्वं कोमलत्वं; तुच्छत्वं प्रचुरत्वं; मलिनत्वं शुद्धत्वं; पराङ्मुखत्वं सम्मुखत्वं; पुराणत्वं नवीनत्वं; त्रसत्वं स्थावरत्वं; वामत्वं दक्षिणत्वं चलत्वं स्थिरत्वं; शत्रुत्वं मित्रत्वं; मूर्खत्वं वैदुष्यं दुःखित्वं सुखित्वं; संसारित्वं मुक्तत्वमित्यादयो भावा वर्ण्यस्य यथौचित्यं ज्ञेयाः ।
,
For Private & Personal Use Only
www.jainelibrary.org