________________
१२८
काव्य कल्पलतावृत्तिः -परिशिष्ट
नदी शोणलोहितारत्यो लवली ग्रन्थिपर्णकः । अगुरुद्राक्षाकस्तुरीमुरव्यान्यत्रोद्भवन्ति च ।। महिष्मत्यास्तु परतः कथितो दक्षिणापथः । महाराष्ट्रमाहिमकाश्मकवैदर्भकुन्तला: ।। ऋथ कैशिकसूपरिकाञ्चिकारके रलाः । पुरला वानवासकः सिंहलौ चोडदण्डकी ।। पालमंजरस ह्यश्रीपर्वताद्यास्तु पर्वताः । रेवा तापी पयोष्णी गोदावरी भैमरथ्यपि ।। वेणी च कृष्णवेणी च तुङ्गभद्रोपलावती । वजरा ताम्रपर्णी च रावणगङ्गादयस्तथा ।। नद्योऽत्र मलयोत्पत्या तदुत्पतिः पुरोदिता । परतो देवसभाया पश्चाद्देशश्च निश्चितः ।। देशास्तत्र देवसभसुराष्ट्रकविशेषकाः । पत्रबाणा भृगुकच्छकच्छीयौनर्तकाबंदी ।। ब्राह्मणी वाहयवनादयश्चात्र तु पर्वताः । गोवर्द्धनो गिरिननगरदेवसभमाल्यकाः ॥ . शिखराबुदमख्याश्च नद्योऽयत्र सरस्वती । महीश्च भ्रमती चात्र नीहिडम्बादयस्तथा । करीरपीलुगग्गरखजूरकरभादयः । जायतेऽत्र पूशदकात्परतस्तूत्तरापथः ॥ शककेकयबोक्काणा हुणवानायजावपि । काम्बोजा बाल्हीकवल्हवीलुम्पाककुलतको ।। कीरन्त गुणतुर्वांर तुरुष्वहरदूरका । वरोरमवाद्याश्च देशास्तत्राथ पर्वताः ॥ हिमालयजालन्धरा विन्द्रकीलकविन्दको । चन्द्राचलादयश्चाथ गंगासिन्धु सरस्वती ॥ शतद्रश्चन्द्रभागा च यमुना वैरावती तथा । वितस्ता विपाशाकुल्हवेदिकाद्याश्च निम्नगाः । द्राक्षाकुंकुमचमरी जिनसौवीरवाजिनः । श्रोताजनं च वैडूर्य सरला देवदारवः । सैन्धवानि तथतानि सम्भवन्त्यत्तरापथे । तेषां मध्ये मध्यदेश इति व्यवह तिर्यथा ।। हिमवद्विन्ध्ययोर्मध्यं यत् प्राग्विनशनादपि ।
प्रत्यगेव प्रयोगाच्च मध्यदेश स कीय॑ते २ ॥ १. श्लोक एषः मनुस्मती २.२१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org