________________
काव्यकल्पलतावृत्ति:-परिशिष्ट
१२७
रामारत्नं मणिर्भार्या निधिरश्वो गजस्तथा। एतानि सप्त रत्नानि सर्वेषां चक्रवर्तिनाम् । कुमारीद्वीपे चामुष्मिन् कथ्यन्ते कुलपर्वताः । विध्यश्च पारियात्रश्च शुक्तिमानृक्षपर्वतः। महेन्द्रसह्यमलया: सप्तैते कुलपर्वताः ।। मलयाद्रिविशेषास्तु चत्वारः परिकीत्तिताः । एलालवङ्गकक्कोलजातीचन्दनशाखिनाम् ।। मरिचानां च जन्मोर्वी प्रथमो मलयाचलः। द्वितीयो मलये ताम्रपर्णीमौक्तिककामधुक् ।। अञ्चत्युपत्यकान्तं च पुनीते कुम्भभूर्मुनिः। स निधिः सर्वरत्नानां तत्र स्युर्विदुमद्रुमाः ।। मुक्ताफलानामुत्पत्तिस्तत्र वशेषु जायते । कर्पूरतरवस्तत्र सिंहनादैः स्फुटन्ति च ॥ तृतीयो मलयः सर्वत्रिदशानां विलासभूः । सनृणांगैर्मुनेः स्थान सदा पुस्पफलद्रुमः।। चतुर्थो मलयस्तत्र चित्रस्वर्णमयी मही। राजधानी रावणस्य लंकालडकारतां गता।। भवत्येभ्यश्चतुर्योऽपि वसन्ते दक्षिणानिलः । ब्रह्मावर्तः सरस्वत्या दृषद्वत्याश्च मध्यतः ।। ब्रह्मवेदि: कुरुक्षेत्र पञ्चारामहू दान्तरं । धर्मक्षेत्र कुरुक्षेत्र द्वादशयोजनावधिः ।। पूर्वापरयोरम्बुध्यो हिमवद्विध्ययोरपि । अन्तरमार्यावर्तास्मिंश्चयर्वर्णाश्रमस्थितिः। यद्वयाडि:आसमुद्राच्च वै पूर्वादासम् द्राच्च पश्चिमात् । हिमवद्विन्ध्ययोर्मध्यमार्यावर्त विदुर्बुधाः ।। तत्रत्यो व्यवहारो हि प्रायेण कविसम्मतः । वाराणस्याः पुरतोऽस्मिन् पूर्वदेशः प्रकीर्त्यते ।। देशास्तत्राङ्गकलिङ्गौ कोशलास्तोसलोकरौ । मगधा मुद्गरकोविदेहनेपालपुन्द्रकाः ॥ तथा दुर्दरनेपालकामरूपमुखाः स्मृताः । नद्यो गङ्गा करतोयाकपिमाप्रमुखाः पुनः ।।
१. श्लोक एषः मनुस्मृतौ २.२२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org