SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ૬૬ Jain Education International पिगार या वज्रं रोहितं धनुराबुधे । अमरावतीपूः परिषत्सुधर्मार्कसमप्रभा । नन्दीसर: केलिसरो नन्दनं केलिकाननंम् ।। प्रासादस्तु वैजयन्तो वैजयन्तो ध्वजोऽपि च । अग्निः सप्तशिखो मेषमारूढः कपिलो वहन् ॥ करान् वरदं शक्त्या व्यंस मृणालकमण्डलू । स्वाहा प्रियाऽस्य पवनः सुहृत्तेजोऽवनीसभा ॥ भवति हिरण्या कनका रक्ता कृष्णा वसुप्रभा चान्या । अतिरक्ता बहुरूपेति सप्तसप्ताचिषो जिह्वा ॥ यमो महिषमारूढः कृष्णः पाणिचतुष्टये । बिभ्राण: कुर्कुटं दण्डं लेखनी पुस्तकं तथा ॥ यमस्य जननो संज्ञा पितार्को यमुना स्वसा । धर्मोर्णा धर्मपत्नी च प्रतीहारश्च वैध्यतः ॥ दासी चण्डमहाचण्डौ चित्रगुप्तश्च लेखकः । साभास्यतैजसी रख्याता पुरी संयमनी पुनः ॥ नैऋतं स्वा ( श्वा) नमारूढः श्यामो दंष्ट्रालवक्त्रवान् । कत्तिका सकेशशिरः खटेवा खेटकिभिः करैः ॥ रक्षोऽस्य निकसा माता सभा कृष्णाङ्गनामताऽभिधा ॥छ || वरुण मकरारूढो विचित्राङ्गो वहन करान् । गदानिधितौ द्वौ द्वौमातुलिंङ्गांकुशकिती ॥ केशासोका : शिवसुहृत् पिङ्गलैकविलोचनः । यक्षेशस्त्रिशिरास्तस्य जनको विश्रवा मुनिः ॥ बृहस्पतिसुता माता तनयो नलकूबरः । विमानं पुष्पकं पुर्यलका सभा ससि ( शशि ) प्रभा ॥ क्रीडावनं चैत्ररथं केलीसरस्तु मानसं । किन्नराणां धनानां च निधीनामप्यधीशिता ।। महापद्मश्च पद्मश्च शङ्खौ मकरकच्छपौ । मुकुन्दकुन्दनीलाश्च चर्चाश्च निधयो नव । काव्यकल्पलतावृत्तिः परिशिष्ट जैनसमयेऽपि नैसर्पाद्या निधयः । यदुक्तं त्रिषष्टिशलाका पुरुषचरिते श्रीहेमसूरिभिः नैसर्पः पाण्डुकश्यापि पिङ्गलः सर्परत्नकः । तेषामेवाभिधानैस्तु तदधिष्ठायका सुराः । पत्योपमायुषो नागकुमारास्तन्निवासिनः ॥ छ || शँकरो वृषमारूढः श्वेतवर्णः करं युतः । त्रिशलवरदव्यालबीजपूरकराजिभि: ॥ छ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy