SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः - परिशिष्ट ॥ इति ग्रहाः ॥ पञ्चाचिः शुकपिच्छाभो धनिष्ठा भूर्बुधोऽस्य तु । पूजायां श्वेतपुष्पाणि कुकुंम नीलपत्रिका ॥ हंसारूढो गुरुः पाणिद्वयस्थाक्षकमण्डलुः । स्याद्वादशाचिरुत्तरफाल्गुनीभूः सुवर्ण रुक् ॥ क्वो मकरनीचो धनुर्मीनगृहोऽस्य तु । नाभिघोषो रथोऽर्चायां श्वेतपुष्पाणि चन्दनम् ||६|| शुक्रस्तु दर्दुरारूढो गोक्षीरप्रतिवीररुक् । करद्वितयविस्फूर्जदक्षस्तत्र कमण्डलुः ॥ मीनकन्यकानी शुको वृषतुला गृहः । षोडशाचिर्मघा जूश्चदशाघोषां रथोऽस्य तु ॥ श्रीखण्डश्वेतपुष्पाणि रभयेच्च तदर्षतोः ॥ शनिर्महिषमारूढो दंष्ट्रारो द्रुतराननः । कृष्कान्तिः करद्वन्द्वक्रीडद्दण्डे कमण्डलुः ॥ शनैश्चरो नीलवासाः सप्तात्वी रेवतीभवः । तुलोच्या मेष नीचोऽस्यात् कुम्भकरौ गृहम् ॥ तदीयपूजने तैलं नीलीपत्रं च कल्पयेत् ॥ छ ॥ राजा वर्त्मनिभो राहुरर्द्धाङ्गकुण्डमध्यगः । मिथुनद्यो धनुर्तीचो तावत्कन्यानिकेतन ॥ भरणी जुतीपर्वा वर्णरक्तः सुमार्जनः ॥ छ ॥ सर्प पुच्छाकृतिः केतुधूम्रोऽश्लेषा समुद्भवः । चतुः समः पञ्चवर्णः पत्र्यः करसंपुटी ॥ अथ दिक्पाला : दिगीशा इन्द्राग्नियमा नैऋतो वरुणोऽनिलः । कुबेर: शॅकरो नागा ब्रह्मा पूर्वादितः क्रमात् ॥ इन्द्रः सुवर्णवर्णागो गजारूढः सहस्ररुक् ॥ वरदाद्यद्वज्राङकुशबीजपूरचतुष्करा । इन्द्रस्य मातापितरावदितिः कश्यपो मुनिः । मुनेः पुलोम्नस्तनया पौलोमीवल्लभा पुनः । पुत्रो जयन्तो जयन्ती पुत्रीसुतस्तु मालिः ॥ देवनन्दी प्रतीहारो हाहामुख्याश्व गायनाः । उच्चैःश्रवा हयो हस्ती त्वंरावतः सितावुभौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy