________________
काव्यकल्पलता वृत्तिः-परिशिष्ट
षड्वक्त्रो याद्वाशकरः कुमार: केकिवाहनः । शरशक्तिखङगाङकुशदण्डाक्षसूत्रधारिणः ।। षट् दक्षिणान करान् बिभ्रद्वामान पुनरलंकृतान् । शूगीधनु : पाशखे टैर्वरदंशकमण्डलुम् ।। तारकासुरजैतृत्वं प्रमथा नामधीशिता ।। अन्धकासुरेहि महेश्वरा क्रौञ्चमध्ये प्रणष्टे क्रौंचाद्रिरनेन दारित इति प्रसिद्धिः । इतीश्वरः ॥छ।। अथ विष्णु ः। विष्णश्चतुर्भुजः श्यामो लदमीश: कोस्यभाङिकतः। शङ्खचक्रगदाशाङ्गपाणिर्गरुडवाहनः ।। सनन्दकोम्बधौ शेषशयनो विश्वपालकः। गोपीविलासकृत् क्लुप्तगोवर्द्धनधरोद्धतिः ।। धरोद्धारकरो दैत्यहन्ता दशावतारकृत् । मत्स्य': कर्मो वराहश्च नरसिंहोऽथ वामनः ।। रामो रामश्च कृष्णश्च बुद्ध कल्की च ते दश । विष्णोर्नवशक्तय: यद व्याडि:-- आचारा वैष्णवी सूक्ष्मा लक्ष्मी: पूष्टिनिरञ्जना। जीवनी मोहनी माया कृष्णस्य नव शक्तयः ।। विष्णोध्या यौगिकनामामालास्तबके ज्ञेयाः। वियत्पुच्छोछालोच्छलितजलगर्भ निधिरपामपा नाथ: पाथ. पृषतलवदुस्थो वियदभूत् । अभूदुह्रस्वोनौ दिनपतिरभूदुर्विदहनश्चलत्काये यस्मिन् स जयति हरिर्मीनवपुषा ।।१।। निष्प्रत्यूहमनल्पकल्पचकितन्त्रैलोक्य रक्षागुरुः क्रीडाकर्मकलेवर: स भगवान् दिश्यादमन्दा मुदम् । कल्पान्तोदधि मध्यमज्जनरसा दादर्ग्यतः संलुठन् पृष्ठे यस्य बभूव सैकतकणच्छायं धरित्रीतलम् ।।२।। पातु श्रीस्तनपत्रभंगमकरो मुद्राङिकतोरस्थलो देवः सर्वजगत्पतिर्मधुवधूवक्त्राब्जचन्द्रोदय. । क्रीडाक्रोडवनोनवेन्दुविशदे दंष्ट्राङकुरे यस्य भूर्भाति स्म प्रलयाब्धिपल्वलतलोऽश्वातैकमुस्ताकृतिः ।।३।। चटच्चटिति चर्मणिच्छमिति चोच्छलच्छोणिते धगद्धगिति मेदसि स्फुतरवोऽस्थनिस्थागिति । पुनातु भवतो हरेरम रवैरिराजोरसि क्वणत्करजपंजरक्रकचकाषजन्मानलः ।।४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org