________________
काव्यकल्पलतावृत्तिः
तस्यास्त्रस्तकुरङगाक्ष्या वक्त्रेण त्वं पराभतः ।
हिमांशोः क्षीयसे युक्तं लज्जसे तु न किं वृद्धया ।।१।। इत्येवमन्यदप्युदाहार्यम् ।
तथा युग्मपादयोप्रितीय चतुर्थपादयोस्तुर्याक्षरात परतो जगणेन पथ्यावक्त्रं भवति । उदाहरणं यथा-- आलानितगजस्कन्धघृष्टाः पथ्यायतद्रुमाः ।
अद्यापि कथयन्त्येते राजेन्द्र तव दिग्जयम् ।।२।। इत्यादि ध्येयम् ।
____ ओजे इत्यादि--विषमे पादे तुर्याक्षरात् परतो यगणजगणवर्ज नगणादिभिः षड्गण विपुलादयः षड्भेदाः भवन्ति । तथाहि-नविपुला १, तविपुला २, भविपुला ३, रविपुला ४, मविपुला ५, सविपुला ६ च । तुर्याद् यगणेन पथ्या वक्त्रं, जगणस्तु समपादयोरेव भवति । आसु नविपुलाद्यासु विषमपादे बन्धदाक्य प्रायस्तुर्यो गुरुः क्रियते ।तथा चाहु : श्री हेमचन्द्रसूरयः छन्दश्चूडामणी-'सर्वासां विपुलानां चतुर्थो वर्णः प्रायेण गुरुर्भवति' इत्याम्नाय इति । समपादयोः षड्वर्णेभ्य: परतो ध्रुवं निश्चितं लघुः क्रियते, लक्ष्म्या स्वेतदिति । एता नविपुलाद्या जातिपक्षे व्यक्तिपक्षे च स्यः । ततो जातिपक्षे आसु नविपुलाद्यासु । एतत्पूर्वोक्तं लक्ष्म लक्षणं द्वयोरप्योजयोः प्रथमतृतीयपादयोः स्यात् । व्यक्तिपक्षे त्वेकस्मिन्नेव प्रथमेऽथवैकस्मिन्नेव तृतीये। एतन्नविपूलादिलक्षणं भवति समे पथ्या । वक्त्रलक्षणं भवतीत्यत्र नविपूला। जातिपक्षे यथा-- पश्यन्ति देव चरणद्वन्द्वं ये तव भक्तितः ।
तेषां भवन्ति विपुलाः सद्यः कल्याणसम्पदः ॥१॥ व्यक्तिपक्षे यथा-- अनाकृष्टस्य विषयविद्यानां पारदृश्वनः ।
तस्य धर्मरतेरासीद् वृद्धत्व जरसा विना ।।२।। तव मन्त्रकृतो मन्त्रै रात संयमितारिभिः ।
प्रत्यादिश्यन्त इव मे दृष्टलक्षभिदः शराः ।।३।। एवं सर्वासामप्युदाहरणावलिः काव्यकल्पलतापरिमलाद् ज्ञेयेति तथा । आसां विपुलानां संकरोऽपि यथा-- का.क.
मस्त्रिगुरुयो मुखलो मध्यलघू रस्तथान्तगुरुभाक् सः । तोऽन्तलघु| मध्यगुरादिगुरुर्भश्च नस्त्रिलघुः ॥१२॥ नाम्ना दतचपषा द्वित्रिचतुष्पञ्चषट्कलाः । मात्रागणाः स्युर्भेदैयित्रिपञ्चाष्टत्रयोदशैः ॥१३।। पूर्व सर्वगुरोः पादालघुराद्यगुरोरधः ।
अग्य तपरिवद् भूयो लघुराद्यगुरोरधः ।।१४।। म.टी.
क्वचित्काले प्रसरता क्वचिदापत्यनिघ्नता ।
शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ॥११॥ इत्यादि । वर्णमात्रेति । छन्दो द्विभेदं वर्णछन्दो मात्राछन्दश्च । पद्यं चतुःपदी इति द्वावपि छन्दःपर्यायौ। छन्दोव्यतिरिक्तं गद्यम् । मर्याविति मन्दारं १, यकारं २, राजिरा ३, सहितं ४, तीर्थेश ५, जयन्त ६, भावत ७, नयन ८, लक्षणा अष्टौ गणाः त्रिकाः । त्रिका इति-व्यवयवा, यद्वा त्रयः प्रमाणमेषां ते । मानमिति सूत्रेण के त्रिका संक्षेपार्थः । एतेषां स्वरूपमाह--मस्त्रि गरुरित्यादि । एतस्यैव विवरणं यथा--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org