________________
काव्यकल्पलतावृत्तिः
का.क.
काव्यस्य छन्दोमूलत्वात् प्रथम छन्दःसिद्धिप्रतानः । तत्र पूर्वमनुष्टुपशासनं यथा--
_आदौ साध्यपदं स्थाप्यं
आदौ प्रथमं साध्यमवश्यप्रयोज्यं पदं कार्यम् । एकाक्षरादीनि साध्यपदानि यथा--श्री:, लक्ष्मी; कमला, जलधिजा, दुग्धाब्धिपुत्री, दुग्धाब्धितनया, दुग्धाम्भोनिधिपुत्री, दुग्धाम्भोनिधिसम्भूता।
एकादिद्विलघु द्वयात् । एको हृस्वो दीर्घो वा वर्ण आदौ यथोस्तो एकादी, द्वौ लधू यत्र पदे तदेकादिद्विलघुपदं, जलधिजा-वारिधिजादि द्वयाद्वर्णद्वयात् स्थाप्यम् । यथा--असौ जलधिजा देवी, इयं वारिधिजा देवी । ह्रस्वादित्यिलधुपदस्थादौ लघू गुरुलघूच न प्रयोज्यौ यथा-इह जलधिजा देवी, अत्र जलधिजा देवी ।
पञ्चाक्षरं समासे के विभक्तिभ्र शिनि स्वरे ॥७ ।। पञ्चाक्षरं पदं कुमारपाल-क्षीराब्धिपुत्रीप्रति समासेन केन वा विभक्तिभ्रंशहेतुना पुरः स्थस्वरेण वा स्थाप्यम् । यथा-कुमारपालभूपालः, क्षीराब्धिपुत्रिका सेयं, कुमारपालको राजा, कुमारपाल उल्लासी।
स्याच्चतुःपञ्चषड्ढूस्वं प्रान्ते विषमपादयोः । चतुर्हस्वाक्षरं पदं दशरथादिकं, पञ्चह्रस्वाक्षरं पदं कमलवनादिकं, षड्ढस्वाक्षरं पदं समवसरणादिकं, प्रथमतृतीयपादयोः प्रान्ते चतुस्त्रिद्विवर्णेभ्यः प्रायः सर्वगुरुभ्यो निश्चितान्तगुरुभ्यो वा परतः प्रयोज्यम् । यथा पृथ्वीनाथो दशरथ:, अथवा-तदा नपो दशरथः । विस्मेरं कमलवनं, रम्यं समवसरणम् ।
शेषं विशेषणः पूर्ण शेष काव्यं विशेषणः पूर्ण क्रियते ।
तूणं काव्यप्रदं पदम् ॥ ८॥ इत्युक्तप्रकारेण प्रयुज्यमानं पदं शीघ्रं काव्यप्रदं भवति । अनुष्टुभि प्रायः पथ्यावक्त्रेणाभ्यासः क्रियते ।
अनुष्टुभि सनौ नाघात् तुर्यात्स्याद्योऽक्षराद्वक्त्रम् । पथ्यावक्त्रं भवेत्तुर्याद्वर्णाज्जे युग्मपादयोः ।। ९ ।। ओजे तुर्यान्नतभरमसनविपुलादयः । आस्वोजे प्रायस्तुर्यो गुर्युजि षड्भ्यो लघुध्रुवम् ॥१०॥ वर्णमात्राभिधं त्येधा छन्दः पद्यं चतुष्पदी ।
मयौ रसौ तजौ भनौस्युरष्टौ वर्णगणास्त्रिकाः ॥११।। म. टी. प्रथमेति । प्रथम-तृतीयपादयोः प्रान्ते चतुर्हस्वाक्षरं पदं चतुर्वर्णेभ्यः परत: प्रयोज्यम् । कथम्भूतेभ्य: ? प्रायः सर्वगुरुभ्यः । प्रायोग्रहणानिश्चितांतगुरुभ्यो वा । एवं पञ्चह्नस्वाक्षरं पदं सर्वगुरुभ्यो निश्चितांतगुरु भ्यो वा त्रिवर्णेभ्यः । तथैव षटह्नस्वाक्षरं पदं द्विवर्णाभ्यामिति । का. क. अनुष्टुभीति--अनष्टुभि अष्टाक्षरायां जातौ यत्राद्यात्प्रथमाक्षरात् परतः सगणतगणौ न स्यातामन्ये तु षड्गणा यथेष्टं भवन्ति; तुर्याच्चतुर्थाक्षरात् परतो यगणो भवति । तच्छन्दो वक्त्रमाख्यातम् । उदाहरणं यथा--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org