________________
काव्यकल्पलतावृत्तिः
शास्त्रसङ्ग्रहमाह-
चत्वारोऽत्र च्छन्दः शब्दश्लेषार्थसिद्धिनामान: 1
क्रमशस्तताः प्रतानां पञ्चचतुः पञ्च सप्तभिः स्तबकैः ।। २ ।।
सिद्धिशब्दः प्रत्येकं योज्यः । स्तबकसंख्या यथासंख्यम् । अत्र काव्यकल्पलतायां छन्दः सिद्धिप्रतानः पञ्चभिः स्तबकैः, शब्दसिद्धिप्रतानश्चतुभिः स्तबकैः श्लेषसिद्धिप्रतानः पञ्चभिः स्तबकैः, अर्थसिद्धिप्रतानः सप्तभिः स्तबकैः, इत्येते तता विस्तीर्णाः । लताधर्मत्वात्प्रतानस्तबकारोपः ।
क्रमेण स्तबकानां नामान्याह-
छन्दोऽभ्यासः सामान्यशब्दकः ।
अनष्टुप् शासनं वादो वर्ण्यस्थितिः पूर्वप्रताने स्तबका मता: ।। ३ ।।
रूढयौगिक मिश्रारख्या यौगिका ह्वानमालिका अनुप्रासो लाक्षणिको द्वितीये स्तबकाः स्मृताः ॥ ४ ॥ श्लेषव्युत्पादनं सर्ववर्णनोद्दिष्टवर्णने ।
कृताः ।। ५ ।।
अद्भुतं चित्रमित्येते तृतीये स्तबका: तुर्ये पुनरलङ्काराभ्यासवर्णाकृतिक्रियाः । प्रकीर्णकाभिधः संख्या समस्ये स्तबकाः स्थिताः ।। ६ ।।
म. टी.
सद्यो रसेति-सद्यः शीघ्रं यो रसोऽर्थात् काव्यरसस्तस्य य आस्वादस्तम्मादुत्पत्तिर्जन्म यस्याः सा । तथा काव्यरसज्ञानानन्तरं त्वरितमेवोत्पत्तेरित्यर्थः ।
विगलितेति । एकस्माद् वेद्यादन्यद् वेद्यद्यं वेद्यान्तरं विगलितं गतं वेद्यान्तरं यस्याः सा तथा । यस्यां प्रीतौ सत्यां किमप्यन्यन्न वेद्यते किं तु सवैका धारावाहितया वेद्यते इति भावार्थ: ।
परब्रह्मेति । परब्रह्म मोक्षस्तस्य य आस्वादस्तत्सुखानुभवनं तस्य सोदरा तत्समानेत्यर्थः । एवंविधा परमा प्रकृष्टा प्रीतिर्महानन्द उच्यते ।
इदमिति । इदं महानन्दरूपं काव्यस्य प्रयोजनं कविसहृदययोः कर्त श्रोत्रो ः सर्वेषां प्रयोजनानां मध्ये सारभूतमिति निर्गलितार्थः ।
Jain Education International
सत्काव्येति । कदृङ ्म वर्ण वर्ण्यते इति ध्यणिका व्यावर्ण्या, सद्भिः काव्या सत्काव्या । तता इति वक्ष्यमाणसंकैः स्तबकैः क्रमशो विस्तीर्णाः । अथ स्तबकनामान्याह -- अनुष्टुप्रशासन मित्यादिकार्यकारणयोर भेदोपचारादनुष्टुप्रशासनहेतुः । स्त कोऽप्यनुष्टुप्रशासनं छन्दोऽभ्यासहेतुः । स्तबकोऽपि छन्दोभ्यास, इत्यनया दिशा सर्वत्र स्तबकनामानि ज्ञेयानि ।
रूढयौगिकेति । रूढयौगिकमिश्राणामाख्यानमाख्या, तद्धेतुः स्तबकोऽपि । रूढयौगिकमिश्राख्यायौगिकानि च तान्याह्वानानि नामानि च । तेषां मालिका यौगिकाह्वानमालिका । यौगिकनाममाला; लाक्षणिको लक्षणाविचारयुक्तः । तुर्येति - अलंकाराभ्यासस्तबकः १, वर्णस्तबकः २, आकृतिराकारस्तबकः ३, क्रिया ४, प्रकीर्णक ५, संख्या ६, समस्यालक्षणाः स्तबका इति । इति शास्त्रसङ्ग्रहः ।
For Private & Personal Use Only
www.jainelibrary.org