________________
काव्यकल्पलतावृत्तिः
अथ मकरन्द टीका
।।६०॥ श्रीहीरविजयसूरिगुरुभ्यो नमः ।। श्रीमद्घोषवतीविभूषितकरां श्रीशारदां सारदां ध्यात्वा श्रीगुरुहीरसूरिचरणाम्भोजन्मसेवाफलम् ।
प्राप्य श्रीविजयादिदेवस गुरोनिर्देशतस्तन्यते बोधार्य खलु काव्यकल्पलतिकावृत्तेविशेषः कियान् ।।१।।
इह हि ग्रन्थारम्भे सकलमतसम्मततया निखिलविघ्नविघातकत्वेन च शास्त्रसमाप्त्यर्थ वाङमयज्योतिःस्मरणरूपमङ्गलाचरणपूर्वकं ग्रन्थप्रस्तावनामाह--
विमश्येति' । अमरनाम्ना कविना काव्यकल्पलतानाम्नी इदम: (हे. व्या-२.१-३४) प्रत्यक्षगते इतिवचनादियं प्रत्यक्षा कविशिक्षा प्रतन्यते विस्तारं नीयते, वृत्त्या विस्तार्यत इत्यर्थः । अन्यापि या कल्पलता भवति साऽप्यमरेण देवेन वृद्धि नीयते सुपर्वपर्वतपृथिवीप्ररोहणशीलतया तदायत्तत्वादिति क्रियासण्टङ कः । अत्राऽन्यकविशिक्षाशास्त्रेभ्यः सद्य: काव्यकरणशक्तिफलल क्षणो विशेष: काव्यकल्पलतेति नाम्नैव सूचित इति । अमरेण कथम्भूतेन ? यतीन्दुना इन्दुरिवाह्लादकत्वादिन्दुर्यतीनां यतिनां वा मध्ये इन्दुर्यतीन्दुस्तेन । यतैङ प्रयत्ने, यत् यतते इति यतिः, पदि पठीत्यादिना इ: इन वा । यन्नाश्रयणं हि काव्यकरणकारणमिन्दुरपि पीयूषमरीचिचयसेवनेन २ लतोपचयनिबन्धनमिति सूचितम् अथवाऽनेनाऽऽत्मनः सुविहितत्वमसूचितं तु स्वोत्कर्षः। कि कृत्वा? विमश्य निःशेषविशेषोल्लेखितया परामश्य, ध्यात्वा, स्मृत्चेति यावत् । कि कर्मतापन्नं ? ज्योतिः । वाङमयं ? शास्त्ररूपमित्यर्थः ।।१।।
पूर्वश्लोकार्थमेव सविस्तरमुपदर्शयन्नाह--
सारस्वतेति । सरस्वत्या इदं सारस्वतं शास्त्रं तस्यास्तदधिष्ठायकत्वात्तद्रूपो योऽमृतमहार्णवः सुधासमुद्रस्तत्र । पूर्णिमेन्दोः पूर्णिमाचन्द्रसमानात् । अरिसिंहश्चासौ सुकविश्चारिसिंहसुकविस्तस्मात् । कवेः कर्म कविता, तस्या रहस्यं तात्पर्य ज्ञात्वा । किञ्चिदरिसिंहकविकृतं किञ्चिदात्मकृतं च सत्रं मयाऽमरेण व्याख्यानपद्धतिमानयिष्यते । कस्यै ? त्वरितकाव्यकृते, करणं कृत् क्विप्, काव्यानां कृत काव्यकृत् ; त्वरिता चासौ काव्यकृच्च सा तथा, तस्य ।
यद्वा कृते इत्यव्ययमपि भवतीति २ समचितेति । इह कविसमये त्रिविधा: देवता:-समुचिता १ इष्टा २ समुचितेष्टा च ३। क्वचित्समुचिताया: देवतायाः ३ स्तुतिर्यथा नीतिकामशास्त्राद्यारम्भे महीपतिमन्मथादेः १ । क्वचिदिष्टदेवतायाः स्तुतिर्यथा रघुवंशमहाकाव्याद्यारम्भे महेश्वरादेः २। तयोरुदाहरणानि तदग्रन्थतो ज्ञेयानि। क्वचितसमचितेष्टदेवतायाः स्तुतिः । सा पूनरत्रव ज्ञेया । तथाहि--यत् किल काव्यलक्षणं वस्तुप्रस्तुतं तदधिदैवतरूपा भारतीति समुचिता, समस्तमतसम्मतत्वादिष्टाऽपि च । तद्युक्तमुक्तमत्र समुचितेष्टदेवतायाः स्तुतिरिति ।
कविशिक्षामिमां वच्मि काव्यकल्पलताह्वयाम् ।।१।। वाचं नत्वेति श्रेयोहेतुः, श्रेयसोह्यविघ्नेन शास्त्रसमाप्तिर्भवति । महानन्दकरं यत्सत्काव्यं तस्य या सम्पद्वद्धिस्तदर्थम् । सद्यो रसास्वादजन्मा विगलितवेद्यान्तरा परब्रह्मास्वादसोदरा परमप्रीतिर्महानन्दः । इदं सर्वप्रयोजनोपनिषद्भुतं कविसहृदययोः काव्यप्रयोजनम् । कल्पलताऽपि सङकल्पमात्रलभ्यत्वेन महानन्दकरी, सत्काव्या सद्भिर्वा या सम्पत् तदर्थं स्यात् । महानन्दः प्रयोजनं, तद्युक्तं सत्काव्यमभिधेयं, शास्त्रमभिधायक, तयोरभिधानाभिधेयलक्षण: सम्बन्धः । शेषं सुगमम् ।
१. 'चरणाम्भोजन्मसेवाफलं' वस्तुतस्तु 'चरणाम्भोजजन्मसेवाफलं' भवितुमर्हति, किन्तु तन्न छन्दसि समीचीनम् । २. सेचनेन-ला. म. २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org