________________
॥ श्री
।
श्रीमदरिसिंहनिर्मित सूत्र सहिता श्रीमदमरचन्द्रविरचिता
काव्यकल्पलतावृत्तिः
विमृश्य वाङमयं ज्योतिरमरेण यतीन्दुना । काव्यकल्पलताख्येयं कविशिक्षा प्रतन्यते ॥१॥ सारस्वतामृतमहार्णवपूर्णिमेन्दोमत्वारिसिंहसकवेः कवितारहस्यम् । किञ्चिच्च तद्रचितमात्मकृतं च किञ्चिद्व्याख्यास्यते त्वरितकाव्यकृतेऽत्र सूत्रम् ।।२।।
शास्त्रारम्भे शास्त्रकारः समुचितेष्टदेवतानमस्कारपूर्व शास्त्रस्याख्या प्रेक्षावत्प्रवृत्त्यङगप्रयोजनयुक्तमभिधेयं चाह--
__वाचं नत्वा महानन्दकरसत्काव्यसम्पदे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org