SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः परिशिष्ट मयूरनत्तगीते च वर्षास्वेव यथा-- मण्डलीकृत्य बर्हाणि कणैर्मधुरगीतिभिः । कलापिनः प्रनत्यन्ति काले जीममालिनि ।। नोलेत्यादि। नीलकृष्णयोरक्यं यथा--- नदीं तूर्ण कार्णाप्य पसतपूलिनां दाक्षिणात्यांगनाभिः। समुत्तीर्णो वर्णानुभयतटचला बद्धवानीरहारम् । तटे सह्यस्योच्चैः स्वलिलनिवहो भाति नील: स यस्याः । प्रियस्यांशेपीते ललित इव घनः केशपाश: सुकेश्याः ।। हरितकृष्णयोरैक्य यथा-- मरकतसदृशां च यामुनस्फटिकशिलाविमलं च जाह्नवम् । तदुभयमुदकं पुनातुवः हरिहरयोरिव सङ्गतं वपुः ।। श्यामकृष्णयोरैक्यं यथा-- एतत्सुन्दरि नन्दनं शशिमणिस्निग्धालबालद्रुममन्दाकिन्यभिषिक्तमौक्तिकशिले मेरोस्तटे नन्दति । यत्र श्यामनिशासु मुञ्चति मिलन्मन्दप्रदोषानिला महामासरयोषितामभिरतं कल्पद्रुमश्चन्द्रिकाम् ।। पीतरक्तयोरक्यं यथा-- लेखया विमलविद्रमभासा सन्ततं तिमिरमिन्दुरुदासे । दंष्ट्रया कनकभङ्गपिशङ्गया मण्डल भुव इवादिवराहः ।। शुक्लगौरयोरैक्यं यथा कैलाश (स) गौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् । अवेहि मां किंकरमष्टमूर्तेः कुम्भोदयं नाम निकुम्भतुल्यम्। (रघु. २ ) नागसर्पयोरक्यं यथा-- हे नागराज बटमस्य नितम्बभागं भोगेन गाढमभिवेष्टय मन्द्रराद्रे:। सोढा विषह्यविषवाहनयोगलीलापर्यंकबन्धनविधेस्तव कोऽतिभारः ॥छ।। महार्णवेत्यादि । महार्णवसागरयोरैक्यं यथा रङ्गत्तरङ्गभ्रभङ्गस्तर्जयन्तीमिवापगाः। स ददर्श पुरो गंगां सप्तसागरवल्लभाम् ।। क्षीरक्षारसमुद्रयारक्यं यथा शेतां हरिर्भवतु रत्नमनन्तलक्ष्मीप्रसूतिरिति नो विवदामहे हो । हा ह ह ह रसपयास्तषितस्य जन्तोः किंत्वस्ति कपपयसः समारोध यः ।। कमलासम्पदोरक्यं यथा-- दोर्मजीरितमन्दरेण जलधेरुत्थापितायां स्वयं यां भूत्वा कमठः पुराणककुदन्यस्तामुदस्तम्भयत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy