________________
काव्यकल्पलतावृत्तिः परिशिष्ठ
त्रिवली तरङ्गमध्या स्निग्धश्यामल कुन्तला । बिम्बोष्ठी हंसगमना तिलपुष्पाभनासिका ।। मधुगन्धा प्रियालापा सलज्जा सुकृतकधीः । शुक्लपुष्पांशुकरता मानिनी लघुभोजना ।।
पञ्चभिः कुलकं । चित्रिणी चित्रवीरादिरक्ता चञ्चललोचना । नातिदीर्धा नातिखर्वा कंचकण्ठी कृशाङ्गिका ।। काकस्वरा काकजंघा विशालजधनस्थला । उन्नतोष्ठी शुभगतिः समुन्नतपयोधरा ।। अल्पलोमान्तमद्वल्पसङ्गं तद्घनवर्तुलम् । मधुसौरभ्यरत्यम्बु संबिभ्राणा स्मरालया ।। ब्राह्मसंभोगनिरता मधुरस्वल्पभोजना । गीतनृत्यादिकसलकलाकौशलशालिनी ।। चतुभिः कलापकम् शङ्खिनी शङ्खदशना कोपना कर्कशाशया । दीर्धप्रसृतनासोरुनयनामिषगन्धभृत् ।। शिशिराङ्गी दीर्धनिम्नबहुलोमस्मरालया । प्रायशः पित्तला मूल्यक्षारगंधि स्मरोदका ।। सम्प्रयोगकृतानल्पनखाडारासभस्वरा किञ्चिदुत्तप्तदेहे यामल्पबहभोजना त्रिभिविशेषकम् ।। हस्तिनी हस्तिगमना सा हस्तिमदगन्धभूत् । सुमध्या स्थूलदशना समदा गद्गदस्वना । वक्रस्थूलालीकांहिलघुपीवरकन्धरा । क्रूरचेष्टातिस्थूला कपिलकेशभृत् । विस्तीर्णोन्नतवक्षोजा कटुप्रायकषायभुग । प्रयोगे दुक्खसाध्येभ मद्यगन्धरतोदका ।। वादित्रगीतसंप्रीता ह्रस्वोरुभ्रजां....तनुंमयुताम्यअन्तविशालमदनालया ।।चतुभिः कलापकम । पद्मिनी पद्यासनेन चित्रिणी भागरेण च । शङ्गिनी वेण्दारितपदेन प्रमदं व्रजेत् ॥ हरुि हस्तिनी तु स्वान्धपादयुगलेन प्रहृष्यति । चित्रिणी प्रथमे यामे द्वितीये हस्तिनीं पुनः । तृतीये शङिखनी तुर्ये पद्मिनी रमयेद्बुधः । एतन्नन्दिकेश्वरीयं गोणिकापुत्रकीयं मतम् ॥छ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org