________________
काव्यकल्पलतावृत्ति:-परिशिष्ट
भार्या नरान्तरात् पुत्रं जनयेत् क्षेत्रजस्तु स । परदारेषु जायेते द्वौ सुतो कुण्डगोलको । पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलक ।। मातृपितृभ्यां यो दत्त. स दत्तः परिकीर्तितः । मित्रपुत्रं शिष्यपुत्र कृत्रिमं प्राहुरुत्तमाः ।। कन्याजातस्तु कानीनः सगर्भोढ़: सहोढकः । बाह्यतः स्वयमानीतः सोपविद्धः प्रगीयते ।। न ज्ञायते गृहे केन जातस्त्विति स गढकः । मूल्य गहीते क्रीत: स्यात् विधिवत् स पुनर्भवः ।। दत्वकस्य च या कन्या हृत्वाऽन्यस्य प्रदीयते । मज्जातस्तनयो ज्ञेयो लोके पौनर्भवस्तु सः ॥ दुभिक्षे व्यसने वापि येनात्मा विनिवेदितः । स स्वयंदत्त इत्युक्तस्तथाऽन्यत्कारणान्तरैः ।। सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । भवन्ति सप्तमार्द्ध सगोत्रा ज्ञातयः पुन: ॥ अथान्ये द्वादश ज्ञेयास्तनया मिश्रजातयः ।। द्विजाज्जातः क्षत्रियायां मूविसित इत्यसौ । वेश्यायां पुनरन्वष्ट: शुा पारशवो मतः । क्षत्रान्माहिष्यो वेश्यायां ४ मुदग दस्तु शूद्रयोषिति ॥ शद्रो द्विजस्त्रियां ६ वैश्यात् शूद्रायां करणः पुन: । मागधः क्षत्रियायां स्यात् ८ वैदेहिको द्विजस्त्रियाम् ।।९।। शूद्रायायोगवो वैश्यां १० क्षत्ता क्षत्रिययोषिति । ११ सुरते सात्त्विका इति स्वेदवेपथ रोमाञ्चस्वरभेदविवर्णता स्तम्भाश्रुप्रलया श्चैतेऽष्टौ भावाः सात्त्विका मता: ॥छ।। कीा तरति सारस्य स्वरूपमथ किञ्चन । जातीरवस्थाप्रकृती: सत्त्वानि स्त्रीषु लक्षयेत् ।। अथ जातयः । पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा । स्त्री चतुर्बोत्तमाद्याथ हीना स्यादुत्तरोत्तरा ।। पद्मिनी पद्यवदना पद्मभस्मरमन्दिरा । पद्मकुड्मलमूहङ्गी पद्मगन्धवरोदका ।। क्वचित् कुवलयच्छाया काचिच्चम्पकचारुरुक् । श्रीफलाभकुचा तन्वी सुवेषा हरिणेक्षणा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org