________________
काव्यकल्पलतावृत्ति:-परिशिष्ट
अग्रगताः सङकलनं सङघटनं संवननम् । अध्ययनं पर्यटनं जागरणं संस्मरणम् ॥१३॥ आरभटो विप्रकृतः केलिकिलो जाङ्गलिकः। अक्षिगतः पल्लवकः कर्मकरो वैकटिकः ॥१४॥
षट्ब्वेषु माणवकम् विदलितवरकरशुभतमनवतताः। उपचितविकसितविलसितविहसिताः ।।१५।। अविरलविसृमरनिरवधिबहुविधाः । अभिनवसुललितसुरचितसुनिचिताः ।।१६।। पुर इहपरिमलपरिसरपरिकराः । परिपणपरिचयपरिणतपरिणताः ।।१७।। परवशवलयितपुलकितकचचिताः। तरलितसुललितनिगडितनियामिताः ।।१८।। अधिकृतमुपरिलमनसिजपरिवृढान् । सहृदयसमुदयविसरणसहचरान् ।।१९।। अनुनयमतिशयमभिमुखमवसरं । व्यतिकरमुपगममुपरममुपरतम् । अनुभवमवयवमनुचरमवयरजम् । प्रतिभयमपचरमनुशयमसहनम् । अपगममुपशममभिभवपरिभवी। कवलनमुपमिति मनसि कलयोः ।।१९॥ षट्पदी चतुर्वेषु शरमिततगुरुयुगिति चलधतिरियं विशमनं प्रथननं । प्रशमनं प्रहसनं प्रहरणं प्रकरणं प्रतिमिति प्रतिकृती ॥२०॥ अविरतस्फुटतरस्फुटदुरुस्फुटतमाः । प्रसृमर स्मिततर प्रकटित प्रमुदिताः ।।२१।। अनयोवितानम् अभ्युपपत्तिसंप्रतिपत्ती विप्रतिपत्ती अध्यवसाय:। साप्त्यपदी नमभ्यविभावश्चारुविसर्पितं वदुदारौ. . . . ॥२२।। पङक्तावनुक्तम् उदरम्भरिरतिभर्त्सनमविलम्बितं परिमण्डलमपवारितमपवारणम् । प्रतिपादनमुररीकृतमुपगहनं हृदयंगमपरिपंथिकपरिचारकाः ।।२३।। अतिशक्वर्यामनुक्तम् । साधारणक्रमाः केऽपि केऽपि लाक्षणिकक्रमाः । शव्दा एवं बुध याः काव्याबन्धस्य सिद्धये ॥२२॥ इति श्री वायटगच्छीय श्री जिनदत्तसुरिशिष्य पण्डित श्रीमदमरचन्द्रविरचिते स्वोपज्ञकाव्यकल्पलता वत्तिविवेचने पोरमलनाम्नि सामान्य शब्दस्तबकोल्लासी साधारणशब्दनिर्धारणोऽष्टमःप्रसरः । ग्रंथानं३१५
अथ वादस्तबकः । जल्पामीत्यादि
काव्यर्नवैः प्रजल्पामि कल्पामितयशस्ततिः । त्वया सार्द्ध कृतस्पर्द्ध वादसादरनादभृत् ॥१॥ अरे त्वया समं ब्रूमो भ्रमोटनपरायणाः । तत्कालकल्पितः काव्यैः काव्यकल्पद्रुमा वयम् ।। वदामि दामितोद्दामवादिवन्दो मदोद्धतः । पधर्मधुरता ह्य (ह्न) घेरनवर्धस्त्वया समम् ।।३।। त्वया समं वदिष्यामि श्यामिताशेषशात्रवः । श्लोकः शान्तमनाः शोकैः श्लोकः शुक्लीकृताम्बरः ।।४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org