SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः-परिशिष्ट आनन्दाथरोमाञ्चितः कर्णो जपः पाटच्चरः। वैर (रा? )ङ्गिको बैहासिकः केलोकिल: सामाजिकः ।।९३॥ वासन्तिको वैज्ञानिक (?) जैवातकसैद्धान्तिकाः । कुक्षभरिरात्मभरिरौर्जस्वलधौरेयको ॥९५।। एकादशष्वेषु वितानां-- जलावेषो समुज्ज्वलः कलामयोल्लसद्वरः। नवोदितो महोन्नतो महाद्युतिः समुदरः ।।९६।। सदाधिक: सदोदितो मन:प्रियो मदप्रदः। स्फूरद्वरस्फुटोदिते स्मितोद्धतप्रियकराः ॥९७।। उदञ्चितं विजृम्भितं निरन्तरं परस्परम् । समन्ततः समजसं सुनिश्चितं सनातनम् ॥९८॥ पुरातनं चिरन्तनं यथागतादुपक्रमः । परिप्लवं चराचरं चलाचलं.......... ॥ अनाविलादनुत्तरं मनोहरमनोरमौ। विकस्वरमनस्वरं निरङकुशं निरर्गलम् ।। निराकृतादनादतं तिरस्कृतादुपस्कृतं । विनिर्जितं पराजितं तिरोहितं पलायितम ।। पुरस्थितो विचक्षणो विशारदः शिवङकरः । सहोदरो धुरन्धरः पुरःसरः पुरोगाः (गतः) ॥१॥ अरुंतुद स्तनंधयो भयङकरो भयानकः। चिकित्सको विदूषको वनीपक: परायणः ।।२।। अमर्षणो विकत्थनादकिञ्चनः सभाजनः। बुभुक्षितः पिपासितः पराङमुखः पृथग्विधः ।।३।। अनादरो विसङकटादनुत्सा (त्स? )हो नमस्स्यितः । मनीषितं मनोरथः समुच्छ्यो विपर्ययः ४।। परिग्रहः परिच्छदः परिस्कृतो निचोलितः । विभावितो विकासितः पराक्रमः पराभवः ।।५।। प्रभावित प्रकाशितावधिक्रमप्रतिश्रयौ। अति क्षमो निकेतनं कुतूहलप्रयोजने ।।६।। उपप्लवादुपद्रवादुपक्लमादुपक्षयात् । नियोजनं विधूननं निषदनं मलीमसः ।।७।। विमर्शनं समापनं पलायनं निभालनम् । विलोकनं निरीक्षणं प्रवासनं प्रतारणम् ।।८।। चतुर्दशस्तेषु प्रमाणिका लोभगणाः। द्रमा तमोवर्यतमश्चारुतमः सारतरं तारतरं कान्ततरं मंजुतरं ॥९॥ उन्मिषितादुद्धोषितः प्रोल्लसितादुच्छवासतं । अभ्युदितादभ्युदितं प्रोल्लसितादत्युचितम् ।।१०॥ संस्फुरितं संमिलितं कान्तिततो दृग्दयितः। स्फारतरः स्मेरतर स्फूर्जदुरुद्योतमयाः ॥११॥ सङकलितं सङघटितं कण्टकितं संयमितं । कुड्मलितं सङ्कुचितं सन्निहितं संपिहितम् ।।१२।। १. 'प्रभाजिकत' दे.प., पा.प. १, पा.प. २ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy