________________
• काव्यकल्पलतावृत्तिः-परिशिष्ट
यथा चोत्तरार्ध
तन्वङ्गी यदि लभ्येत दिव्या सम्भवति क्रिया। पादचतुष्टयोपजीवने
परिपूर्ण चौर्यमेवेति न तन्निदर्श्यते। पर्दकदेशोपजीवनं यथा-- नाश्चयं यदनाप्तिावस्तप्रीतिरयं मयि ।
मांसोपयोगं कुर्वीत कथं क्षद्रहित्तो जनः ।। कोपान्मानिनि कि स्फुरस्यतितरां शोभाधरस्तेऽधरः
कि वा चुम्बनकारणाद्दयित नो वायोर्विकारादयम् । तत्त्वं सुभ्र सुगन्धिमाहितरसं स्निग्धं भज स्वादरान्
मुग्धे मांसरसं ब्रुवन्निति तया गाढं समालिङ्गितः ।। उसयपजीवनं यथा
ऊरुद्वन्द्वं सरसकदलीकाण्डसब्रह्मचारी । इति यथा च
ऊरुद्वयं वादलिकन्दलयोः सवंशं श्रोणिः शिलाफलकसोदरसन्निवेशा।
वक्ष: स्तनद्वितयताडितकुम्भशोभं स ब्रह्मचारिशशिनश्च मुखं मृगाक्ष्याः ।। उक्तयो ह्यान्तरसक्रान्तान् प्रत्यभिज्ञायन्ते स्वदन्ते च । नन्विदमपदेश्यमेव न भवति यदित्थं कथयन्ति ।
पुंसः कालातिपातेन चौर्यमन्यद्विलीयते।
अपि पुढेष पौत्रेषु वाग्चौयं न विशीर्यते ।१।। इत्याशंक्याह-यथोचित्यमिति। अयमप्रसिद्ध, प्रसिद्धिमानह। अयमप्रतिष्ठः, प्रतिष्ठावानहः, अपक्रान्तमिदमस्य संविधानकं प्रक्रान्तं मम। गडचीवचनोऽयं, मद्वीकावचनोऽहं। अनादतभाषाविशेषोऽयमादतभाषाविशषोऽहं । प्रशान्तशातकमिदं देशान्तरकत कमिदं। उत्सन्नमिव बन्धनमलमिदं। म्लेच्छितकायनिबद्धमिदमित्येवमादिभिः करणे शब्दहरणार्थहरणे चाभिरमेतेत्यवन्तिसुंदरी। आश्च
नास्त्यचौरः कविजनो नास्त्यचौरो वणिग्जनः । स नन्दति विना वाच्यं यो जानाति निगुहितुम् ॥ उत्पादककविः कश्चित् कश्चित्त परिवर्तकः। .. आच्छादकस्यथा चान्यस्तथा संवर्गकोऽपरः ॥ शब्दार्थोक्तिषु यः पश्येदिह किञ्चन नतनम्।
उल्लिरदत् किञ्चन प्राच्यं मन्यतां स महाकविः ॥छ। ' इति श्रीवायटगच्छीय श्री जिनदत्तमुरि शिष्य पण्डित श्रीमदमरचन्द्रविरचिते स्वोपज्ञकाव्यकल्पलतावृत्तिविवचने परिमलनाम्नि छन्दोऽभ्यासस्तबकोल्लासी समासाद्यभ्यासप्रकाशनः सप्तमः प्रसरः ग्रं. ४९० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org