SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्ति:-परिशिष्ट यदाह-- मूलंक्यं यत्र भवेत् परिकरबन्धस्तु दूरतोऽनेकः । तत्पुरपरप्रवेशप्रतिम काव्यं सुकविभाव्यम् ।। यथोत्तरममीषां प्राधान्यम् ।।छ।। पदेति-काव्यन्तरात् पदोपजीवनं यथा-- दूराकृष्टशिलीमुखव्यतिकरान् भो कि किरातानिमानाराध्यावृतपीतलोहितमुखान् किं वा पलाशनिति । पन्थाः केसरिणं न पश्यत पुरोऽप्येनं च सन्तं वने मूढाः रक्षत जीवितानि शरणं याते प्रियां देवताम् ।। यथा च-- मा गाः पान्थ प्रियां मुक्त्वा दूराकृष्टशिलीमुखम् । स्थितं पन्थानमावृत्य किं किरातं न पश्यसि ।। आदिशब्दात् पदादीनां उपजीवनं पादोपजीवनं, यथा-- गन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त्वरा द्वित्राण्येव पदानि तिष्ठतु भवान् पश्यामि यावत्सुखम् । संसारे घटिका प्रवाहविगलद्वारा समे जीविते को जानाति पुनस्त्वया सह मम स्याद्वा न वा सङ्गमः।। यया च हंहो स्निग्धसखे विवेकबहभिः प्राप्तोऽसि पुण्यर्मया गन्तव्यं कतिचिद्दिनानि भवता नास्मत्सकाशात क्वचित् । त्वत्सङ्गेन करोमि जन्ममरणोच्छेदं गृहीतत्वरः को जानाति पुनस्त्वया सह ममः स्याद्वा न वा सङ्गमः। पादद्वयोपजीवनं यथा तत्तावदेव शशिनः स्फुरितं महीयो यावन्नतिग्मरुचिमण्डलमभ्यदेति । अभ्यद्यतेऽप्यहिमधामनिधी तु तस्मिन्निन्दोः सितान्नसकलस्य च को विशेषः ।। । यथा च-- तत्तावदेव शशिनः स्फुरितं मदीयो यावन्न किञ्चिदपि गौरि नरा हसन्ति । ताभिः पुनविहसिताननपंकजाभिरिन्दोः सिताभ्रशकलस्य च को विशेषः ।। पादत्रयोपजीवनं यथा अरण्ये निर्जने रात्रावंतर्वेश्मनि साहसे । न्यासापह्नवते चैव दिव्या सम्भवति क्रिया ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy