SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ काव्यकल्ललतावृत्तिः -परिशिष्ट प्रतिबिम्बतुल्यतया यथा-- ते पान्तु वः पशुपतेरलिनीलभासः कण्ठप्रदेशघटिताः फणिनः स्फुरन्तः । चन्द्राऽमृताम्बुकणसेकसुखप्ररूढयैरंकुरैरिव विराजति कालकूटः ।। तथा च-- जयन्ति नीलकण्ठस्य नीला: कण्ठे महाहयः। कृगलगंगाडम्बसंसिक्तकालकटाङकुरा एव ।। अर्थः स एव सर्वो वाक्यान्तविरचनापरं यत्र । तदपरमार्थविभेदं काव्यं प्रतिबिम्बकल्पं स्यात् ।। कवचिदालेख्यतया तत्रवाथ यथा जयन्ति धवलव्याला: शम्भोर्जूटावलम्बिनः । गलद्गंगाम्बुसंसिक्तचन्द्रकुन्दांकुरा इव ।। कियताऽपि यत् संस्कारकर्मणा वस्तुभिन्नवद्भाति ।। तत्कथितमर्थचतुररालेख्य प्रख्यमिति काव्यं ।। क्वचित् तुल्यदेहितुल्यतया यथा अवानादी कृत्वा भवति तुरगो यावदवधिः पशुधन्यस्तावत प्रतिवसति यो जीवति सुखम् । अमीषां निर्माणं किमपि तदभद्दग्धकरिणां वनं च क्षोणीभद्भवनमथवा येन शरणम् ।। अवार्थ-- प्रतिगहमपलानामेकः एव प्रकारो महरुपकरणत्वादथिताः पूजिताश्च । स्फुरति हतमणीनां किन्तु तद्धाम येन क्षितिपतिभवने वः स्वाकरे वा निवासः ।। यदाह-- विषयस्य यत्र भेदेऽप्यभेदबुद्धिनितान्तसादृश्यात् । तत्तुल्यदेहितुल्यं काव्यं बध्नन्ति सुधियोऽपि ।। क्वचित् परपुरप्रवेशप्रतिमतया यथा-- यस्यारातिनितम्बिनीभिरभितो वीक्ष्यांबरं प्रावृषि स्फूर्जद्गजितनिजिताम्बुदरवस्फारोऽभ्रवृन्दाकुलम् । उत्सृष्टप्रसभाभिषेण न भयस्पष्टप्रमोदाश्रुभिः किञ्चित् कुञ्चितलोचनाभिरसकृत् प्राताः कदम्बानिलाः ।। अवार्थ:-आच्छिद्याप्रयतः कदम्बकुसुमं यस्यारिवारैर्नवं यात्राभङ्गविधायिनो जलभुवां कालस्य चिह्न महान् । हृष्यद्भिः परिचुम्बितं नयनयोः न्यस्तं हृदि स्थापितं सीमन्ते निहितं कथञ्चन ततः कर्णावतंसीकृतम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy