SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः परिशिष्ट.. धनुर्वेदकोशलं यथाआर्यस्यास्त्रघनौघलाघववती सन्धानसम्बन्धिनी ___ स्थाणुस्थानकसौष्ठवप्रणयिनी चित्रक्रियालङकृतिः । नि:स्पन्देन मयातिविस्मयमयी सत्यं स्थितप्रत्यया संहारे खरदूषणत्रिशिरसामेषेव दृष्टा स्थितिः ।। गजलक्षणकौशलं यथा-- कर्णाभ्यर्णवितीर्णचामरमरुद्विस्तीर्णनिःश्वासवान ___ शंखच्छत्रविराजि राज्यविभवे द्वेषी निलीनेक्षणः। स्मत्वा राघवकुञ्जर: प्रियतमामेकाकिनी कानने स त्यक्तां चिरमुक्तभोगकवलं क्लेशोष्मणा शुष्यति ।। अश्वशास्त्रकौशलं यथा-- आवर्तशोभः पृथसर्वराशिः केनावदातः पवनो सवेगः। गम्भीरघोषोऽद्रिविमर्दखेदादश्वाकृति कमिवोद्यतोऽब्धिः ।। रत्नपरीक्षाकौशलं यथा द्वौ वज्रकणों जगतीपतीनां सद्भिः प्रदिष्टी ननु सार्वजन्यौ । यः स्याज्जपाबिद्मभंगशोणी योऽयं हरिद्धारससन्निकाशः ।। धातुवादकौशलं यथा नखदलितहरिद्धाभङ्गगोरे शरीरे स्फुरति विरहजन्मा कोऽप्ययं पाण्डभावः। बलवति सति यस्मिन् सर्वमावर्त्य हेम्ना रजतमिव मृगाक्ष्या: कल्पितान्यङ्गकानि ।। द्युतकौशलं यथा-- यत्राऽनेक: कवचिदपि गहे तत्र तिष्ठत्यर्थको यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते। इत्थं चेमौ रजनिदिवसी तोलयन् द्वाविवाक्षौ काल: कल्पा सहगह कल: क्रीडति प्राणिसारे।। चित्रकोशलं यथा-- अतथ्यान्यपि तथ्यानि दर्शयन्ति विचक्षणाः। समे निम्नोन्नताद्रीव चित्रकर्मविदो यथा ।। योगशास्त्रनपुण्यं यथा-- पथ शास्त्रकथाकन्था रोमन्थेन वृषाऽत्र किम् । अन्वेष्टव्यं प्रयत्नेन तत्त्वज्योतिरान्तरम्।। एवमन्यदपि । सकलकलालोकव्यवहारकौशलसंस्कृता हि प्रतिभा कवीनां काव्यार्थसुधा कामधेनुः । यदाहन स शब्दो न तद्वाक्यं न स न्यायो न सा कला। जायते यन्न काव्यांगम् महो भारो गुरुः कवेरिति । काव्याभ्यासं चतर्भेदभिन्नच्छायोपजीवनात् ।। पदाधुपजीवनतो यथोचित्यं सुधीः सजेत् । छायार्थादर्थस्य तदुपजीवनं क्वचित् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy