________________
काव्यकल्पलतावृत्तिः-परिशिष्ट.
अद्राक्षं बहुलान् बहूनशृणवं भूरीन् समस्ताविष भूयिष्ठानिरवैषमप्यतनवं बंहीयसां सङ्गतम् । भूयोभिः सममन्यवीदहमहोरात्राणि धात्रा पुनः सृष्टोऽसि त्वमिव त्वमेव कथमन्येनानुकारिष्यसे । तीर्थेष्वस्नामधामत्रितयमवरिवष्याम पुण्यां धरित्रीमारण्यामस्पृशामव्यतनुमववत्सेय द्वयं पञ्चवातान । आत्मानं व्योमरूपं यदपि निरुपधि प्रण्यदना प्रकामं एकेति-एकमेव कृतस्तेनाष्टमूर्तिः प्रमदयति दृशो यद्यशोभद्रसूरिः ।। भंजीमहि सदा भैक्ष्यं रथ्यावासो वसीमहि शयीमेहि महीपृष्टे कुर्वीमहि किमीश्वरः ।। एते मे कुलकन्यकाप्रणयिनः पातालमूलस्पृशः सन्त्रासं जनयन्ति विन्ध्यभिदुरा वारा प्रवाहा: पुरः ।।
होमान्मूलितनतितप्रतिहतव्यावत्तितप्रेरितत्यक्तस्वीकृतनिह्नतप्रटितप्रोद्भूततीरद्रुमाः ॥
कालुष्यं जनयन् जडस्य रचयन् धर्मद्रुमोन्मूलनं श्लिश्नन्तीति कृपाक्षमाकमलिनीर्लोभाम्बुधिं वद्धयन् ।
मर्यादातटमुबजन् शुभमनो हंसप्रवासं दिशन् किं न क्लेशकरः परिग्रहनदीपूरः प्रवृद्धि गतः ॥छ।। सकलेति-सकलानां लक्षणादीनां कलानां कौशलं यत्र स तथा । लक्षणकौशलं यथा -द्विगुरपि सद्वन्द्योऽहं गहे च में सततमव्ययीभावः ।
तत्पुरुषकर्मधारय येनाहं स्यां बहुव्रीहिः ।।
छन्दःकोशलं यथा
आश्चर्य तन्न शार्दूलविक्रीडितमहो महत सनाभि यदिदं बाणस्रग्धराभिरधःकृतम् ।।
अलंकारकौशलं यथा--
अल्पप्रभाणां प्रभवत्प्रभोऽधमयोग्यमुच्चर्मणिपण्डतानाम् । वहत्यलंरातत्वयालाकारस्तावानेव तवाङ्गमेतत् ।।
नाटयशास्त्रकौशलं यथा
आतन्वन् सरसां स्वरूपरचनामानन्दिबिंदूदये भावग्राहिशुभप्रवेशकगणं गम्भीरगर्भस्थितिः । उच्चैर्वत्तिसपुष्करव्यतिकरं संसारविष्कम्भकं भिंद्याद्वो भरतस्य भाषितमिव ध्यातं पयो यामुनम ।।
अर्थकोशलं यथा मुद्राराक्षसनाटके । कामशास्त्रकौशलं यथा--
अधरे बिन्दुः कण्ठे मणिमाला कुचयुगे शशप्लुतकम् । तव सूचयन्ति कुसुमाऽऽयुधशास्त्रपण्डितं रमणम् ॥ तर्कः षट् प्रकारः । तत्राहतो यथा-शरीरपरिमाण आत्मा यथाऽन्यथा शरीराफल्यमात्माफल्यं वा। तत् कौशलं यथा--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org