________________
३८
काव्यकल्पलतावृत्तिः-परिशिष्ट
गोपायति क्षितिमिमां चतुरब्धिसीमां धीमानधर्मवचनाच्च ज गुप्सते यः ।
वित्तं न गोपयति यस्तु वनीपकेभ्यो धीरो न गुप्यत महत्यपि कार्यजाते ।। गुप् रक्षणे, गप धपः विच्छिपणिपने रायः । स्वार्थे गोपायति । गोप गोपनकुत्सनयोः गप्तिज किदभ्यः मनिस्वार्थि जगप्सते । पटपुटीति दण्डकेन गप भाषायें गोपायति । गुप् गोपनकुत्सनयोः । गुप्तिज किद्भ्य: सनिस्वार्थे जुगप्सते। पटटीति दण्डकेन गुप् भाषार्थे, भु (मु?) प् गोपायति गुप व्याकुलत्वे दि. गुप्यति । एकार्थाः सदृशधातवो यथा--
धुनोति चम्पकवनानि धुनोत्यशोकं चूतं धुनोति धुवति स्फुटितानि मुक्तम् ।
वायुविधूनयति केशरपुष्परेणून् यत्कानने धुवति चन्दनमञ्जरीश्च ।। धूा कम्पने । स्वार्थे धुनोति । धूञ कम्पने । वया. धुनोति धृपिति धूनने। तुः धुवति। धृा कम्पने क्या इति धूञ प्रीणात्योर्णः । विधूनयति, विधूनते, च्चा. धवति। एते सदृशधातवो मत्कृतशब्दसमुच्चयात् ज्ञेयाः -सदृशेति-सदृशाक्षराणि अन्ते येषां ते सदृशाक्षरान्ता धातवो यत्र स तथा । यथा
क्षोभयन्तौ भिया लोकं लोभन्ततौ च नारदम् । शोभयन्तौ दिवं बाणैर्युयधाते क्रुधा युती ।।
एक एव सन्नादिप्रत्ययो येषां ते एकप्रत्यया धातवो यत्र स तथा । यथा
सर्वङ्ग ज्ञाप्सति, सर्वमीप्सति, दयां धित्सति, दयां धित्सत्यघं मित्सति, क्रोधं दीत्सति, दानशीलतपसां साफल्यमादित्सति । कल्याणोपचयं चिकीर्षति, भवाम्भोधेस्तटं लिप्सति
मुक्तिस्त्री परिरिप्सते यदि जनस्तद्भावनां भावयेत ।। तोयत्यग्निरपि सजत्यहिरपि व्याघ्रोऽपि सारङ्गति व्यालोप्यश्चति पर्वतोऽप्यु पलपिचेडोऽपि भीयूषति । विघ्नोऽप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यपां नाथोऽपि स्वगृहत्यटव्यपि नृणां शीलप्रभावात् ध्रुवम् ॥छ।। पृथगिति । पृथग्विभिन्न उपसर्गो यस्य स पृथगुपसर्गः, एक एव धातुर्यस्य तथा ।
यथा
मन्दं निधेहि चरणौ परिधेहि वासो नीलं पिधेहि वलयावलिमंचलेन । मा जल्प साहसि निशारदचन्द्रकान्ता दन्तांशवस्तव समांसि समापयन्ति ।। धतं समं विकरण समविकरणा धातवो यत्र स तथा ।
यथा--
पापं लनीहि करुणाकर मां पुनीहि दोषं मुषाण जगदीशमुखं पुषाण । चित्तं प्रबोधय विशोधय दर्शनं मे शीलं प्रवर्त्तय निवर्तय कर्मजालम ।।
तुल्येति-तुल्यं समानं त्यादिविभक्तीनां वचनमेकवचनं वा बहुवचनं वा अन्ते येषां ते तल्यविभक्तिवचनाला धातवो यत्र च तथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org