________________
काव्यकल्पलतावृत्तिः-परिशिष्ट
हसमाणो । आनश्-वेवन्तो, वेवमाणो ।'अ-डड-डुल्ला: स्वार्थिक-क-लक च' (हे. प्रा. 8-4-429) वा इति अः । प्र. सि 'स्यमोरस्योत्' (हे. प्रा. 8-4-331) उः । स्यम्-'जस्-शषोलुक' (हे. प्रा. 8-3-4) इति सलोपः । ङ-न-णनो व्यञ्जने इत्यनुस्वारः । होतउ आगततो दोऽनादौ शौरसेन्यामयुक्तस्येति । तस्य दत्तं प्र.सि. 'अतः से?:' (हे. प्रा. 8-3-2) इति आगदो ॥छ।।..
इति सर्वमवदानं भद्रकृत् प्राप्नुयात्, भद्रं अभद्रं चाप्यभद्रकृत् । पुनरभ्यासे विशेषाः प्रकाश्यन्ते-काव्याभ्यासः । स्यादि सदृकवचनान्तसदृशान्त्यवर्णपदः । अन्तधृततद्धितकप्रत्यय रमणीयपदपटलः । नानाथै कार्थसदृशधातुः एकप्रत्ययधातुः । पृथगुपसर्ग कधातुरपि धृतसमधिकरणधातु: तुल्यविभक्तिवचनान्तधातुश्च एक-कृतप्रत्यययुक् । सकलकलासंकुलश्च भवेत् । त्रिभिविशेषकम् । आसामन्तरसूत्राणां क्रमात व्याख्या स्याद्रीति स्यादिविभक्तीनां सदकवचनमेकवचनं वा, द्विवचनं वा बहुवचन, अन्तो येषां तानि च । तथा सदृशोऽन्त्यो वर्णो येषां तानि पदानि यत्र स तथा काव्याभ्यासः । प्रथमैकवचनेन सदृशान्त्यवर्णैः पदैर्यथा अभिमतशुभकर्मा भिन्नदुष्कर्ममर्मा प्रकटितजिनधर्मा स्मेरिताशेषशर्मा । कनकरुचिरकान्ति: क्लुप्तदारिद्रयदान्ति वितरतु परशान्ति: ब्राह्मणी ब्रह्मशान्तिः ।।?|| यथा वा
वैराग्यद्रुममञ्जरीकुचरितग्रन्थिच्छिदा कर्तरी ज्ञानेन्दुद्युतिशर्वरी भयचयाम्भोजप्रभा धूमरी । श्रेयः पल्लववल्लरी शुभदिनारम्भध्वनद् झल्लरी चित्तान्तः समुदित्वरीभयरुजां स्याद्भावना जित्वरी ।।
सप्तम्येकवचनेन यथा--
सर्वाशारुधिदग्धवीरुथिसदा सारङ्गबद्धक्रुधि क्षामक्ष्म्यारुहि मन्दमन्मधुलिहि स्वच्छन्दकन्दद्रुहि । शुष्यच्छ्रोतसि तप्तभूरिरजसि ज्वालायमानाम्भसि
ग्रीष्मे मासिततार्कतेजसि कथं पान्थ वजन जीवसि ।। एवं सर्वविभक्तिवचनैः सदृशान्त्यवर्णापदान्यूह्यानि ।।छ।।
अन्त्येति । अन्तो धृतो यस्तद्धितैकस्यैक एव प्रत्ययस्तेन रमणीयं पदपटलं यत्र स तथा
यया
पारलौकिकपुण्याप्तैविणैरहलौकिकैः । यस्यानुकूलिको धर्मस्तच्छब्दः सार्वलौकिकः ।। रुण्डमुण्डमयमेव धरित्री पीठमस्त्रमयमेव विहाय । रक्तबिन्दुमयमेव तदाश चक्रवालमकृतैष भुजाल: ।। धर्मध्वंसधरीणमक्रमरसावारीणमापत्प्रथालंकर्माणमशर्मनिर्मितकलापारीणमेकान्ततः । सर्वान्नीन मनात्मनीनमनयान्त्यन्तीनमिष्टे यथा
कामीनं कुमताध्वनीनमजयन्नक्षौधमक्षेमभा ॥छ।। नानेति । नानार्था एकार्था वा सदशा धातवो यत्र स तथा नानार्थाः । सदशधातवो यथा--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org