________________
४०
काव्यकल्पलतावृत्तिः-परिशिष्ट
शरीरमात्रमात्मानं ये वि (व? )दन्ति जयन्ति ते । तच्चुम्बनेऽपि सञ्जातः सर्वाङ्गपूलकोऽस्य मे ।।
बौद्धीयो यथा--विवक्षा पूर्वाह ने हि शब्दास्तामेव विवक्षां सूचयेयुस्तकौशलं यथा
भवतु विदितं शब्दा वक्तुर्विवक्षितसूचकाः ।
स्मरति (हि) यतः कान्तं कान्ता बलात् परिचम्बति ॥ नननमममामां स्पाक्षीनिषेधपरम् वचो ।
भवति शिथिले मानग्रन्थो तदेव विधायकम् ।। लौकायतिको यथा--भूतेभ्यश्चैतन्यं मदशक्तिवत् । तत् कौशलं यथाबहविधमिह साक्षिचिन्तका प्रवदन्त्यन्यमितकलेवरान । अपि समुदिते च चिन्तका: प्रलयं यान्ति सहैव चिन्तया ।
सांख्यीयो यथानासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदशिभिः ।।
(गीता 2 ) तत्कोशलं यथा
य एते यज्ज्ञान: प्रथितमहसो येऽप्ववनिपा: मुगाक्ष्यो याश्चताः कृतमपरसंसारकथया । अमी ये दृश्यन्ते फलकुसुमनम्राश्च तरवो जगत्येवंरूपा विलसति हृदेषा भगवती ।।
न्यायवैशेषिकीयो यथा--
स कि सामग्रीक ईश्वरः कतति पूर्वपक्षः । निरतिशय श्वर्यस्य कर्तृत्वमिति सिद्धान्तः ।।
तत्कौशलं यथा--
किमीहः किं कायः स खलु किमुपायस्त्रिभुवनम् ।
किमाधारो धाता सृजति किमुपादानमिति च।। दान इति च। अतोश्चरायत्तत्वय्यनवस दुःस्थो हतधियः । कुतर्कोऽयं काञ्चिन्मुखरयति मोहाय जगतः ।। आगमश्चाप्तवचनं, तत्रैवागमे कौशलं यथा--
घोरघोरतरातीतब्रह्मविद्याकलातिगः ।
परापरपदव्यापी पायाद्वः परमेश्वरः ।। बौद्धागमकौशलं यथा--
कलिकलषयतानि यानि लोके मयि निपतन्तु विमुच्यतां स लोकः । मम हि सुचरितेन सर्वसत्त्वाः परमसुखेन सुखावनी प्रयान्तु ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org