________________
काव्यकल्पलतावृत्तिः-परिशिष्ट
टकारयोस्तो भवति । तस्य भगवती, पब्बती, सतं । दस्य-मतन-परवसो, सतनं, तामोतरो पतेसो, वतनकं होतु रमतु । तकारस्यापि तकारविधानमादेशान्तरपाधनं । तेन पताका चेतिसो इत्याद्यपि सिद्धं भवति । सिद्धो-'हृदये यस्य प'(हे-प्रा-8-4-310) इति यस्य पः यद्वृत्ति । पैशाच्या नां हृदय शब्दे यस्य पो भवति । हितपकं, किंपि विपि हितपके अत्थं चिन्तयमानी। यादश तादशा। यद्ययं यि इति यत्वं । यादृशादे-दुस्तिरिति (हे-प्रा-8-4-319) तिः यद्वृत्तिः । पैशाच्या यादृश इत्येवमादीनां ह इत्यस्य स्थाने ति इत्यादेशो भवति । यातिसो, तातिसो; केतिसो, एतिसो; भवातिसो, अतिसो, यम्हातिसो, अम्हातिमो। 'शषो सः' इति (हे-प्रा-8-4-309) सत्त्वं यत्तिः । पैशाच्यां शपोः मो भवति । ण-सोभति, सोभनं, ससी, सक्को, सखो। षविसमो, किसानो। न कगचजादिषट्शम्यन्तसूत्रोक्तम् (हे-प्रा-8-4-324) इत्यस्य बाधकस्य बाधनाकर्थोऽयं योगः । 'अतः सेो:' (हे-प्रा-8-3-2) इति --याति सोभाविसो गुण: । ‘णोउन;' (हे-प्रा8-4-306) नत्वं यद्वृत्तिः । पैशाच्चां णकारस्य नो भवति । गुन-गन-युत्तो गुनेन ॥छ।।
भार्या कष्टं-'र्य-स्न-प्टां रिय-मिन-सटाः क्वचित' (हे-प्र- 8-4-314) इति रियसटौ यत्तिः । पैशाच्यां यस्तष्टां स्थाने यथासंख्यं रिय सिन सट इत्यादेशा: क्वचिद् भवन्ति । भार्या, भारिया; स्नातं, सिनातं; कष्टं, कहटं ॥छ।।
शक्रः शक्तो वा शंखो। 'शेषो स' इति सत्वं, 'सर्वत्र लवरा.....'इति (हे-प्रा- 8-2-79) रलोपः । अथवा 'शक्तमुक्तदष्टरुग्णमदुत्वे को वा' (हे-प्रा- 8-2-2) इति क्तस्य कः, यदवृत्तिः । एष संयुक्तस्य को वा भवति -सक्कोसक्को-सत्तो; मुक्को-मतो; डक्को-दत्तो, लुक्को-लग्गो, माउक्क-माउत्तणं । 'अनादौ शेषादेशयोद्वित्वं' इति कस्य द्वित्वंमक्को -संखो ॥छ।
गम् धातुः क्वस्थाने 'क्त्वस्तूनः' (हे-प्रा-8-4-312) इति तून यवृतिः । पैशाच्या क्त्वाप्रन्ययस्य स्थाने तून इत्यादेशो भवति-गन्तून, रन्तून ; हसितून, पठितून; कधितून ।। मोऽनुस्वारः' (हे-प्रा- 8-1-23) इत्यनुस्वारः गंतून छ।।
पार्वती--'ह्रस्वः संयोगे' (ह-प्रा- 8-1-84) इति ह्रस्वत्वं यद्वृत्तिः । दीर्धस्य यथादर्शनं संयोगे परे ह्रस्वो भवति । आत्, अत्यं, तत्थं, विरहग्गी, आस्य-अस्सं । इतू-मणिदो, तित्थं । उत्-गुरुल्लापा:-गुरुल्लापा, चुण्णो। एत्नरेन्द्र:--नरिन्दो मिलि ॥छ।।
दिट्ठि क्कत्थणवढें उत् अहरु? नीलुप्पलं। 'सर्वत्र लवरां......' (हे-प्रा-8-2-79) इति श्लोप: । आदौ शेषादेशयोः द्वित्वमिति वस्य द्वित्वम् । 'तदोस्तः' (हे-प्रा- 8-4-307) इति तस्यापि तत्वम ॥छ।।
अथाप्रभ्रंश:--
तम्हे गरिहे जो सो जितच्छम्मुह संकरु ।
जहिं तहिं सामियहो कहाहृतउ आगवो तरुगिरि ।। (हे . प्रा. 3-4-342) पञ्चम्ये 0 'इमि-भ्यस्-डीनां...' (हे- प्रा- 3-4-341) हे हुँ हय इति हे हे यवृत्तिः । अपभ्रंशे इदुदभ्यां परेषां असि म्यस् डि इत्येतेषां यथासंख्यं हे हं हि इत्येते त्रय आदेशा भवन्ति। इसेहें।
गिरिहें सिलायलु तरुहें फल घेप्पइ नीसावंन्नु । घरु मेल्लेप्पिणु माणुसहं तो विन रुच्चइ रन्नु । भ्यसो हुँ । तरहुं वि वक्कलु फलु मुणि वि परिहणु असणु लहन्ति । सामिहुँ एचिउ अग्गलउँ आयरु भिच्च गृहन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org