________________
६४
काव्यल्पलतावृत्तिः परिशिष्ट
हणानजैषीज्जैत्रोऽयं तथा रामोऽगमद्वनम् । व्यामिश्रेऽद्यह्यो वा भुक्ष्म ह्यत्र न ह्यस्तनी भवेत् ॥६८।।
अन्त्ययामं यावद (दा?)स्व पूरिरात्री वसेद्यव। । भूतेऽर्थेऽद्यतनी ह्यस्तन्यपवादो भवेद्यथा ।।६९।। कश्चित् पप्रच्छ पथिक किश्चिज्जागरकष्टितम् । क्व भवानुषितः प्राहो द्यामुत्रावान् समित्यसौ ।।७०॥ रात्र्यन्तयामे मुहुर्तस्वाचेऽपि ह्यस्तनी पुनः । अमुत्रावसमित्याह सुप्तो मुहूर्तमेव यः ।।७१।। माङ्गयद्यतनी सर्वासां विभक्तीनां विबाधिका । मा कार्षीन्यायं सास्ममाडिह्यस्तन्यद्यतन्यपि ॥७२॥ मा स्म करोत् मा स्म कार्षीर्व्यवधाने तयोरपि । मा कार्षीःस्म स्म कार्षीत् मा मा चैत्र स्म वृषा व्यथाम् । स्म करोन्मा करोत् स्माद्यं मा चैत्रे स्म करोदिति ॥७३।। षट्पदी । छातोः सन्त्रानसौ माड्या क्रोशे दातुं प्रक (ल्पि)ते। मापचन्मा पचमानो यावज्जीवं स दुष्टधीः ।।७४।।
तथा च माघः
माजीवन्यः परावज्ञा दुःखदग्धोऽपि जीवति । असिद्ध सिद्धवत् संभावनतः प्रत्यौ यथा ।।७५।। (शिशु. २.४५)
समहै चेत् प्रयत्नोऽभूदुदभूवन विभूतयः । पचेन्माधवोऽवर्षीत् समपत्स्यं न शालयः ॥७६।। जातश्चायं मुखेन्दुश्चेत् भ्रकुटिप्रणयी पुनः । गतं च वसुदेवस्य कुलं नामावशेषताम् ।।७७।। आशंस्यो वा भतवच्च सद्वच्च प्रत्यया मताः । पक्के यथा प्राप्तमन्ये चेदुपाध्याय आगमत् ॥७८।। तर्कमेतेऽधीष्म ह्यपाध्यायश्चेदुपागतः । एतैस्तर्कोऽधीतश्चेदागच्छत्यधीमहे तदा ।।७९।। पक्षे वेदा गमिष्यन्त्यागन्ताऽध्येयामहे तथा । अध्येतास्महे विज्ञेयानीत्युदाहरणानि च ।।८।। इति हस्तन्यद्यतन्योाप्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org