________________
काव्यकल्पलतावृत्तिः परिशिष्ट
सम्भावलनेऽलमर्थे तदर्थानुक्तौ तु सप्तमी । अपि मासमुपवसेत् शक्यं सम्भावनं ह्यदः ।। ४६ ।। अशंक्यसम्भावनेऽपि भिन्द्यात् शिरसा गिरिम् । अलमर्थोक्तौ तु शक्यश्चैत्रो धर्म करिष्यति ।। ४७ ।। अश्रद्धामर्षायाः सप्तमी जातु यद्यदा यदौ । न श्रद्दधे न क्षमे जात्वत्र भवान् सुरां पिबेत् ।। ४८ ।। यद्यदा यद्यत्रभवान् सुरां पिबेदिति क्रमात् । आशंस्येऽर्थे सप्तमी नाशंसार्थोपपदे सति ।। ४९ ।। उपाध्यायश्चेदागच्छदागमदागमिष्यति । आगन्ता शंसे सम्भावयेऽधीयीय श्रुतं वचः ।। ५० ॥ क्षिप्रा शंस्यार्थीयाः सप्तम्या शंसेरमधीयीय । हेतूफलयोरेकोक्तौ सप्तमी वाभविस्यत ।। ५१॥ उपासीत याद गरून् गच्छेत् शास्त्राम्बुधेस्तटम् । यदि गुरूनुपशिष्यते शास्त्रान्तं गमिष्यति ।
गुरोरुषासनं हेतु: शास्त्रान्तगमनं फलम् ।। ५२ ।। जैनेन्द्रमर्चय विचारय चान्द्रमैन्द्र विस्तारय प्रकटतां नयपाणिनिन्तम् । विश्रान्तमाश्रय पुरस्कुरु धर्मवर्त्म निर्माणमुन्नमय भोजनरेन्द्रकीत्तिम् ॥६॥ श्रीशाटकीयनमति सविधे विधेहि कौमारसारमभिनन्दय दाक्षिणात्यम् ।
इत्यात्मसात्कृतपुरातन शब्दशास्त्रं श्रीहेममाविशति भारतपुस्तकान्तः ॥६२।। युग्मम् श्री हैमशास्त्रं कर्तु जैनेन्द्रमर्चयति इत्यादिक्रमेण क्रियापदेष वनमानादेया, ततः श्लोकार्थः स्फुटीभवति । इति पश्चमीव्याप्तिः ।
अवथास्तन्यद्यतन्यौ अन्योऽप्यादुत्थानादन्योऽप्याच्च । संवेशनादहरुभयतोद्धिरात्रं वा लोकोऽद्यतनो मतः ।।६३।। भूतेऽनद्यतने ह्यस्तन्यं करोदहरद्य वा । ख्याते दृश्येऽनद्यतने शस्तनी न परोक्षिका ।।६४।। अवन्तीमरुणत् सिद्धाऽख्याते चक्रकट बटुः । अदृश्यकं स दैन्येशं जघान किल केशवः ॥६५।। पुनरद्यतने भर्तुरुदगादत्र दीप्तरुक् । भूतेऽद्यतनी त्वहार्षीदकार्षीत् प्रमुखा यथा ॥६६॥ अनद्यतनादिविशेषस्या विवक्षणे सति । व्यामिश्रेण चाद्यतनी भूतेपाम् पयो यथा ।।६७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org