SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ६२ Jain Education International प्रैषादिः प्रेषानुज्ञावसराः न्यक्कारपूर्विका प्रेषणा प्रेषः कामचारानुमतिरनुज्ञातम् । अवसरः कर्तव्यकालप्राप्तिः उपाध्यायश्चेदागच्छत्यागन्ता वा गमिष्यति । अथ त्वं सूत्रमधीष्ठाऽथानुयोगं गृहाण भोः ।। ३३ ॥ ऊर्ध्वं मुहूर्ताद्भवस्तत्रोर्द्धमौहूर्तिके तथा । काले भविष्यन्ति पञ्चम्यर्थहेतो हि विभक्तयः ।। ३४ ।। वर्तमाना सप्तमी भविष्यन्ती श्वस्तनी तथा । ऊर्ध्वं मुहूर्तादुपरि मुहूर्तस्य परं तथा ।। ३५ । मुहूर्तादुपाध्यायश्चेदागच्छत्यागमिष्यति । आगता गच्छेदथ तं तर्कमथाधीष्व लक्षणम् ||३६|| गम्यगर्हायां जात्वप्योर्वर्तमाना वेद्यथा । जातु त्वं भवान् धीमन्नपि तत्र भवान् सखे ||३७|| जन्तून् हिस्ति प्रकटगर्हायां सप्तमी पुनः । अपि तत्रभवान् पापं कुर्यात् गर्हामहेहि धिग् ।। ३८ ।। तत्सामीप्ये भूतभाविद्विभेदे चैकैकस्मिन् वर्त्तमाना न संतृञ् । भूते काले प्रत्यया भौतकालाः पक्षे भाविन्यन्यके भाविकाला ।। ३९ ।। काव्यकल्पलतावृत्तिः परिशिष्ट आयातोऽत्र कदा त्वमेष विषयादायामि विद्धि प्रभो त्वामायायान्तमुपागमं पुनरहं चायातवानाययौ । त्वं यास्यस्यमुतोऽथ यामि यदि वा यान्तं च जानीहि मां यास्याम्येव नमस्कृतोऽसि भगवान् यातास्म्यविघ्नोऽस्तु वः ॥ ४०॥ इति वर्त्तमाना व्याप्तिः ॥ छ ॥ अथ सप्तमी - का च सम्प्रति विध्याद्यर्थषट् के सप्तमी भवेत् वेद्ये १ । विधिनिमन्त्रणा २ मन्त्रा ३ ऽध्येषण ४ प्रश्न ५ मर्थनम् ६ ॥ ४१॥ विधिरज्ञातज्ञप्ति: निमन्त्रणे यदनिषेध्यं स्यात् २ । आमन्त्रणे यदृच्छा ३ ध्येषणमपि पाठविषयाज्ञा ४ ।। ४२ ।। संप्रश्नः शास्त्राणामालोच: ५ प्रार्थनं पुनर्याञ्चा ६ । Esमी विध्याद्यर्था: प्रकाशितः सप्तमीसत्काः ||४३|| जन्तून्न हिंस्या १ द्विसन्ध्य कुर्यादावश्यकं तथा २ । इहाशी न रोचते चेत् शिष्यमध्यापयेत् तथा ४ ।। ४४ ।। किं नु खलु भो व्याकृतिमधीयीयेत लक्षणम् । प्रार्थना मे तर्कमधीयीयोदाहरणावली ६ ।। ४५ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy