________________
काव्यकल्पलतावृत्तिः परिशिष्ट
सन्त्यगाः त्वं कदायातः आगच्छन्नस्मि यामि च । अतीते स्म पुरा प्रीतिः दशश्वाद्यागवत्यपि । वर्तमानो यथा राजा पृच्छति स्म पुरोहितम् ।। १९ ॥षट्पदी।। स्म पुरा धीयते तेन त्विह कथयत्यदः । अधीते स्म वदुः शश्वदिति निगदव्ययम् ॥ २० ॥ भते प्रश्नस्योत्तरोक्तौ न नौ सात्यनशा तृा वर्तमाना त्रयं स्यात् । यातं त्वं भो न त्वहं यामि यातं सत्यां वाणी मां ब्रुवाणं च पश्य ॥ २१॥ भते पृष्ठोक्तौ सत्यं न तुभ्यं च वर्तमाना न संतृड्। देवदत्त कटं भोः किमकार्षीनं करोमि भोः ।। २२ ।।
न कुर्वन्तं न कुर्वाणं मां पश्यावो वदन्नकः । ब्रवीम्यहं तु ब्रुवन्तं तु ब्रुवाणं तु पश्य माम् ।। २३ ।। परोक्षे चापरोक्षे च भूते भूरादियोगतः ।। वर्तमाना परोक्षा च ह्यस्तन्यद्यतनी तथा ॥ २४ ॥ वसन्तीह पुरस्थोऽत्राभाषते राघवस्तदा । ऊषरत्र पुरस्थोऽत्राबभाषे राघवस्तदा ।। २५ ।।
पुरा वसन्निह च्छात्रास्तदाभाषत राघवः । पुरा वात्सुरिह च्छात्रास्तदाभाषिष्ट राघवः ।। २६ ।। पुरा शश्वत्तदा यावदथेतिहाः पुरादयः । अथाह वर्णी विदितो महेश्वरो यावद्गिरः खे मरुतां चरन्ति ।। २७ ।। स्यात् पुरा यावतोर्योगे वर्तमाना भविष्यति । पुरा भुङक्ते यावद्भुङक्ते पुरा श्वो भुङक्त इत्यपि ॥ २८॥ कदा कोर्वर्तमाना वा भविष्यत्यसो कदा । भुङक्ते भोक्ष्यते भोक्ता कहि भुङ्क्ते भोक्ता भोक्ष्यते । भूते तु कदा बुभुजे कर्हि वा भुक्तवानयम् ॥ २९ ।। स्यादितरङ्गत मां तस्य किं मे भविष्यति । लिप्सायां वर्तमाना च भविष्यन्ती श्वस्तनी तथा ।। ३०॥ कः कतरः कतमो वा भिक्षां ददाति दास्यति दातैवम् । लिप्स्याते सिद्धौ द्वौ यो भिक्षां ददाति दास्यति ।। ३१ ।। दाता स स्वर्ग सुकृती याता यास्यति याति च । षट्पदी लिप्स्यमन्नादि तस्मात् सिद्धिः स्वर्गप्राप्त्यादि पञ्चम्यर्थहेती। पञ्चम्यर्थः प्रेषादिरस्य तु हेतुरुपाध्यायागमनादिस्तत्र भविष्यति। वर्तमाना भविष्यन्ती स्वस्तन्यः स्यविभक्तयः ॥३२॥षट्पदी।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org