________________
काव्यकल्पलतावृत्तिः परिशिष्ट
अद्यतनी परोक्षा च पुनः क्रियातिपत्तिका । क्रियातिपतने भूते प्रोक्ता काले भविष्यति ।। ४ ।। भविष्यन्ती श्वस्तनी चाशीराशीर्वचने सति । एवं विभक्तयः कालत्रययोगाद्दशोदिताः ।। ५ ॥ विभक्तीनां च पूर्वाद्धं परस्मैपदमुच्यते । उत्तरार्द्ध तु सर्वासामात्मनेपदमित्यपि ।। ६ ॥ मध्ये द्वयोस्त्रिकं पूर्व प्रथमः पुरुषो भवेत् । द्वितीयं मध्यमः प्रोक्तस्तृतीयं तूत्तमो मतः ।। ७ ।। त्रिकमध्ये पूर्वं वचनमेकवचनं मतम् । द्वितीयं द्विवचनं तृतीयं बहुवचनं मतम् ।। ८ ।। स्यात् परस्मैपदं कर्तर्येवात्मनेपदं पुनः । भावे कर्मणि धातूनामात्मनेपदिनां पुनः ।। ९ ।।
उभयपदिनां चापि कर्तर्यात्मनेपदम् । स तो ते इति विन्यस्ते प्रथमः पुरुषो भवेत् ॥१०॥ त्वं युवां यूयमित्येवं मध्यमः पुरुषः पुनः । अहमावां वयं योगे उत्तमः पुरुषः खलु ।। ११ ।। स्यादेकव क्रिया यत्र कालो यत्रक एव तत् । युगपद्वचनं तत्र पुरुषाणां परो भवेत् ।। १२ ।। यथा पचामोऽहं स त्वं स त्वं च पचथो यथा । अहं त्वं च पचावश्च युगपद्वचने पुनः । पचत्येष पक्ष्यसि त्वमपाक्षमहमोदनम् ।।षट्पदी ।।१३।। पचत्यसौ पचसि त्वं पचाम्यहमिहाऽपि यत् । पूरुषा भिन्नदेशस्थाः सन्ति नैकदेशगाः ॥ १४ ॥ स त्वं चाहं च पचति प्रयासि च जयामि च । अत्र क्रिया विभिन्ना यत् ततो न पुरुषः परः ।। १५ ।।
वर्तमानो भवेत् कालो विरामसमयावधिः ।। कालो भूतभविष्यन्तौ तस्य वाद्यन्तयोः स्थितौ ॥ १६ ।। प्रवृत्तो परतश्चैव वृत्ताविरत एव च । नित्यप्रवृत्तः सामीप्ये वर्तमानश्चतुर्विधः ।। १७ ।। वर्तमाने वर्तमाना क्रमेणोदाहृतिस्थितिः । नाऽयं खादति मांसानि क्रीडन्तीह कुमारकाः॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org