________________
काव्यकल्पलतावृत्तिः परिशिष्ट
कटं कुर्वन् करिष्यन्नानशाचक्षाण तद्गुणान् ।
शानडि पचमानाङ्गं काने चक्राण वाटिकाम् ॥८॥ अत्र श्लोके सम्बोधनत्रयम् ।
एष्यदबुणि वने गच्छन्ये धानाहरको जनः । खलर्थेतूक्ततैर्वा स्यात् कट ईषत्करः त्वया ॥८१।। सूज्ञानोऽर्थस्त्वया कर्मषष्ठी प्राप्तौ द्वितीयिका । उक्तार्थत्वात् खलर्थेषु प्रथमैव कृता पुनः॥८२॥ तुल्यार्थस्तृतीया षष्ठ्यौ तुल्यस्तेन च तस्य च । षष्ठी द्वितीये एतेन प्रयोगो यदि नाञ्चते ॥८३।। ग्रामं ग्रामस्य पूर्वेणाञ्चेः प्राग् प्रत्यगुदगगृहात् । ऋते द्वितीयापञ्चम्यौ ऋते तस्मादृते च तम् ।।८४॥ विना योगे द्वितीया च तृतीया पञ्चमी तथा । तं विना च विना तेन विना तस्मान्न मे रतिः ॥८५।। दूरादिप्यदूरार्थादसत्त्वादाडसिद्यमः । दूरेण दूरादरे दूरमेवं स्युरदूरतः ।।८६॥ दूरोऽध्वा यमदूरोऽध्वा नात्र कि डा [दा ?] डसिद्यमः । सत्त्वमत्रास्ति सत्त्वार्थ उक्तत्वात् प्रथमा ततः ।।८७॥ तृतीयाद्या हेत्वर्थे स्युर्यथा धनेन हेतुना । धनाय हेतवे हेतोर्धनाद्धेतोर्धनस्य वा ॥८८॥ हेतौ धने च वसति तथा हेत्वर्थसंयुतान् । सर्वादेः सर्वा जायन्ते यथा यात्येष पत्तनम् ।।८९।। को हेतुः कं हेतु केन हेतुनाऽप्यथ हेतवे ।
कस्मै कस्माद्धेतोः कस्य हेतौ च कुत्र वा ॥९॥ इति श्रीवायटगच्छीय श्रीजिनदत्तसूरिशिष्यपण्डित श्रीमदमरचन्द्रसूरिविरचिते स्वोपज्ञकाव्यकल्पलतावत्तिविवेचने परिमलनाम्नि छन्दोभ्यासस्तबकोल्लासी स्यादिविशेषनिरीक्षणः पञ्चमः प्रसरः ।छ।। ग्रन्थाग्रं २२५॥छ।। अथ त्यादिविभक्तिविशेषाः ।
वर्तमाना सप्तम्याद्या ज्ञेया दशविभक्तयः । तासामाद्याश्चतस्रस्तु सार्वधातुकसंज्ञकाः॥ १ ॥ संत्रानशानमुख्याश्च प्रत्यया: शानुबन्धिनः । काला वर्तमानोऽतीतो भविष्यन्नित्यमी त्रयः ।। २ ।। वर्तमाने वर्तमाना विध्यादौ सप्तमी पुनः । पञ्चम्यनुमतौ कालेऽतीते शस्तनिका पुनः॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org