________________
काव्यकल्पलतावृत्तिः परिशिष्ट
पिबस्तोयस्य गोर्दोहो ग्रामस्य गमनं तथा । भावेऽपि धात्वर्थकृता स्याद् व्याप्तिस्तत्सकर्मता ।।६६।।
बणनच वहेदर्थे तुच शो युट् धञ कर्महेतवः । षष्ठी निष्ठाद्यवा (बा ?) धायां व्याप्ये संवृधि वा द्विषः ।।६७ चौरं द्विषन् यथा चौरसमूहस्य द्विषन्नपि । षट्पदी धातोद्विकर्मके षष्ठी कर्मणोरुभयोर्न वा । सुध्नं सुध्नस्य गोर्नेता नेता सुध्नस्य गां च गौः ।।६८।। एवं सर्वत्र गां गोश्च पयसो दोग्धा गोः पयसः पयः । मख्ये दहादे नीवह्योगौंणी षष्ठी मतान्तरे ॥६९।।
ज्ञानेच्छार्थािन्नीच्छील्यादे वर्तमानकाले क्तः । आदिगत्यर्था कर्मकधातुभ्यः क्तोऽधिकरणे च ॥७॥ वर्तमानक्तस्याधारक्तस्य अयं प्रपञ्चः । कर्मणि न तृतीया मता राज्ञां राज्ञामिष्टस्तथाचितः ।।७।।
इदमोदनस्य भुक्तं सक्तूनां पीतमिदमहेः सुप्तम् । इदमासितं तेषामथो विशेषः पुनः क्लीबः ।।७२।।
यः कोऽपि क्तः क्लीबे तत्कर्तरि षष्ठिका तृतीया वा । तस्योक्त तेनोक्तमिसुप्तमिहाहेरिह त्वहिना॥७३।।* वर्तमानक्तस्याधारक्तस्यायं प्रपञ्च (षष्ठी न कर्मकर्बोनिष्ठाव्ययवतदन्तकि । क्वं सौ शंत्रण शानकानैष्यदर्थावण खलि खलर्थे च ॥७४।।) श्लोक निशायां विहितोऽनेन कटो विहितवान कटम् । अव्ययेषु कटं कृत्वा पायं पायं प्रयोगतः ॥७५।।
स वाञ्छिति कट कत तनि वक्ता परान् गुणान् । उदन्तेः प्रत्ययाः सप्त स्फुरिष्णु प्रमुखा यथा ।।७६।। अलङकरिष्णु कन्यां स जिष्ण : क्षिपररीन शरान् । क्षुधार्तोऽन्नबुभुक्षुश्च धारुर्वत्सोऽस्ति मातरम् ॥७७।। श्रद्धालुर्धर्मतत्त्वानि त्वं वंदारु: सरस्वतीम् । को घातान् सासहिस्ताङ्गे चक्रि: कुम्भं कटं दधिः ।।७८॥ क्वासौ च पेचि वा तत्तं विद्वान्नत्वं महामनाः । शंतव्य धीयंस्तत्त्वार्थ रहस्थं धारयन् हृदि ।।७९।।
-
-
-
-
--
• श्लोकाः ७१, ७२, ७३ दे. प. पुस्तके न सन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org