SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः परिशिष्ट ५७ इहाप्रसिद्धस्य सप्तच्छदपुष्पोद्गमस्य शरत्कालः । प्रसिद्धोऽभूच्चिद्रं तेनेह सप्तमी ।।५०॥ षष्ठी भवति सम्बन्धे स्वस्वामित्वादिके यथा । राज्ञो नाश्रीयान्मानुषाणामुपेत्यमुपगोरपि ।।५१॥ अज्ञानार्थस्य ज्ञः करणे षष्ठी घतस्य जानीते । असतो घृतस्य हि घृतज्ञानमिहाज्ञानमेव यतः ।।५२।। अविवक्षितकर्मत्वात् ज्ञाधातोरिह रुचादितास्य ततः । स्यादात्मनेपदं तत्करणविवक्षा घृतस्यापि ॥५३।। ज्ञानार्थस्य तु जानाति स्वरेण तनयं पिता ।। रिरिष्टा स्तादसंत सादन्तश्च षष्ठिका ||५४।। यथोपरि जलस्याब्जमुपरिष्टात् तरोः खगः । परस्तात् तमसो ज्ञानी पुरस्तात् सुधियाः श्रियः ।।५५।। अधस्तात् शशिनः सूर्यः परः सुकृतिनां सुखम् । अस्ति दक्षिणतो ग्रामस्योत्तराद्वा तरङ्गिणी ॥५६।। भवतश्च भाववृत्तेरनादरे सप्तमीषष्ठ्यौ । निर्मोहः प्रावजीद्दतो लोकस्य रुदति वा लोके ॥५७।। निर्धारणे च षष्ठीसप्तम्यौ क्षत्रियो नषु नणां वा । सू (शू)रो गोषु गवां वा भवति हि कृष्णा बहुक्षीरा ॥५८॥ षष्ठयक्लान्तात् कृतः कर्तर्यासिका भवतो यथा । तव स्वापस्तवैवाग्रगामिका च तवासना ।।५९।। यः कर्त कर्मषष्ठ्या हेतुस्त्यधिकारकृत्यकारणको । हित्वान्यः कृतकर्तरि षष्ठी स्यात् विकल्पेन ॥६०।। प्रजानां शासनं श्लाध्यं राज्ञो राज्ञाथवा भुवि । साध्विंद पयसः पानं शिशोर्वा शिशुनाऽथवा ॥६१।। सूक्तेश्चिकीर्षा चैत्रस्य काष्ठानां भेदिकाद्य (१)ते । अत्राणकप्रयोगौ स्तस्तन्न कर्तुस्तृतीयिका ॥६२।। कृत्य कर्तरि वा षष्ठी कट: कार्यस्तव त्वया । त्वयैव तव वा ग्रामो गन्तव्यो नाऽपरस्य च ॥६३।। कृत्यस्य चोभयोhतो षष्ठी कर्ताप्ययोन हि । नया ग्राममजा ग्राम्यः शतं जेयः शतैस्तथा ॥६४।। कर्मविषयो यथा कृत: कर्मणि षष्ठी स्यादनुक्ते दर्शक: स्थितेः । अपां स्रष्टा त्रिलोकस्य ज्ञाता वर्षस्य पूरकः ॥६५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy