________________
काव्यकल्पलतात्तिः परिशिष्ट
लघुनाऽधिकेन युक्तात् पञ्चमिका सप्तमी च गुरुनाम्नः । खार्या अधिको द्रोणः खार्याधिकोऽथवा द्रोणः ॥३४।। एकाक्यर्थपृथक्नानायोगे पञ्चमिकात्रिकाः । नाना चैत्रात् पृथग्मैत्रात् पृथग्नानाऽपि तेन च ।।३५।। सप्तम्यधिकरणे स्यात् तथा भजर्थेश्च काल अधिकरणे । पक्षे षष्ठी भुङक्ते द्विरहि न भुङवत्ते द्विरह नो वा ॥३६।। मासेत्ति पञ्चकृत्वा मासस्य च पञ्चकृत्व एवात्ति । बहुधा दिवसे भुङक्ते भुङक्ते दिवसस्य बहुधा च ॥३७।। कुशलायुक्तपदाभ्यामासेवायां च गम्यमानायाम् । कुशलो विद्याग्रहणे विद्याग्रहणस्य वा छात्रः ॥३८॥ स्वामीश्वरादिशब्दनिजपर्यायवजितोगे । स्वामी गोष गवामीश्वरादिकैरेवमन्यैश्च ॥३९।। वाप्येक्तेन सप्तमिका नित्यं वा वयवमधीती । आम्नाती साहित्ये पठति छन्दःसु सर्वेषु ।।४०।। नक्तादि (दी? )न् जायते यत्र तस्य स्यान्न हि सप्तमी । कृतपूर्वी कटं पूर्वशब्दादि (दी? ) नत्र वर्तते ।।४१।। हेतोः कर्माभेदे सप्तमिका दन्तयोर्गजं हन्ति । आप्रत्यादो सति साध्वसाधुयोगे च सप्तमिका ।।४२।। साधुरसाधुर्मातरि कदापि मैत्रः स्वभाव एवास्य । प्रत्यादौ पितरप्रातपितरं परिपितरमन्वभि च ।।४३।। सप्तम्यप्रत्यादी सप्तजायां साधुनिपुणि निपुणसंयोगे । षष्ठ्यपवादो मातरि निपुणः साधु पितर्येषः ।।४४।। स्वाम्यर्थेन निजार्थेनाधिनायुक्ताच्च सप्तमी । स्वर्गेऽधिवासवे सम्यगधिस्वर्गे च वासवः ॥४५।। उपेनाधिकिनि स्याश्च सप्तम्यधिकिनिः पदात्। उपरवार्यामयं द्रोण उपद्रोणे यमाढकः ॥४६। ख्याताद् भावादविख्यात भावविद्भानु सप्तमी । कालाच्च दुह यमानासु गतो दुग्धासु वा गतः ।।४७।। शरत्कालागमे सप्तच्छदः पुष्यन्ति शाखिनः । पुष्यत्याम्रो वसन्ते च जातिः प्रावृषि पुष्यति ।।४८।। भावक्रियायाश्च दोहक्रिया प्रसिद्धा हयभिज्ञानम् । अजनिगमनक्रियाया आख्याता या यतः प्रकटम् ॥४९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org