________________
काव्यकल्पलतावृत्तिः परिशिष्ट
Jain Education International
आमन्त्रय च छात्राणां पूर्व कायस्य संस्पृशाम् । गम्यमानेऽपि दिक्शब्दे क्रोशाद्वेध्यं स विध्यति । पत्रसम्बन्धाविव तन्न पञ्चमी ||२०|| ग्रामाद्द्बहिः पुरा दारात् मैत्रादाराच्च भोजनम् । आराद्दरान्तिकार्थोऽत्र तेनोदाहरणद्वयम् ॥ २१ ॥ आरादर्थेरिति सूत्रे विकल्पोऽग्रे भणिष्यते । नित्यार्थं ग्रहणं त्वत्राराच्छब्दः केवलस्तथा ।। २२ ।।
ततः प्रभृति कार्तिक्या आरभ्य ग्रीष्मत्ः परम् । चुरादेश्चेति मुख्ययेशु गम्यन्तु परतः पदम् ||२३||
अन्यो भिन्नो हिरक् पृथक् अर्थान्तरं (र) विलक्षणः । व्यतिरिक्त (क्ता ) इमे शब्दाः परिवर्त्याः क्रमात् पदान् ||२४||
इतरशब्दो नात्रान्यशब्दार्थः कि पुनर्द्वयोः । मध्यादेकतरस्यैव परिग्रहार्थको यथा ।। २५ ।।
इतरो दिवसो रात्रेरितरो माधवो मधोः । षट्पदी पञ्चमी स्यादृणाद्धेतोः शताद्बद्धः शताद्भुतः । गुणादप्यस्त्रियां वा स्याज्जाड्याप्रज्जाड्येन बाधितः ||२६||
स्त्रियां बुद्धयाग्रणी प्रज्ञयाढ्यो विद्यया दृशः । आरादर्थेन वा पञ्चम्या पणादापणस्य वा ।। २७ ।।
दूरं च विप्रकृष्टं च तथैवासन्नमन्तिकम् । आरा सृष्टार्थो यह रे निकटेऽपि च वर्तते । आराच्छन्दे केवले तु प्रागुक्ता नित्यपञ्चमी ||२८|| षट्पदी
वा पञ्चमीत्वसत्त्वे करणे स्तोकाल्पकृच्छ्रा कतिपयतः । मुक्तः स्तोकेनाहं स्तोकाच्चैवं कृच्छ्राद्यैः ॥२९॥ स्तोकेण विषेण हतः पुनर्भवति विषविशेषणत्वेन । इह सत्त्ववृत्तिता स्तोकं पचतीह क्रियाविशेषणकम् ||३०||
कालाध्वनो ह्यसीमनि सप्तामिका त्वध्वनश्च वा प्रथमा । अश्चिन्या: कार्तिकी मासे मासे माघाश्व फाल्गुनिकाः ॥ ३१ ॥
श्रीगिरेः काकिलाग्रामो योजते योजनं तथा । क्रिययोरुभयोर्मध्ये काले वाच्ये तथाध्वनि ||३२||
पञ्चमी सप्तमी च स्यादद्य भुक्तो मुनिर्व्यधात् । द्वयहे वा भोक्ष्यते यद्वाऽत्रस्थः क्षिपति सायकान् ।। धन्वी विध्यति लक्षाणि क्रोशात्तु क्रोशेऽथवा पुनः ।। ३३ ।। षट्पदी
For Private & Personal Use Only
५५
www.jainelibrary.org