________________
काम्पल्पलता कृत्तिः परिशिष्ट
कुशूलात् पतति स्त्रीयमाद्यनाङ्गः पचिस्त्विह । पुस्तकाद्च्छुध्यते छात्रो वाचनाङ्गोऽत्र बध्यते ॥४॥ सोपेक्षितक्रियोपायो यथाऽस्मादयमद्भुतः ।।५।। आढ्याः सांकास्य केभ्यो वा यथा पाटलिपुत्रकाः । एष धीसङ्गजोपायः शृण्वत: परमप्यमम् ।।६।। अधर्मादेर्जुगुप्सादावधर्मात् स जुगुप्सते । धर्मात् प्रमाद्यतीत्याद्याः भीतार्थे भयहेतुतः ।।७।। वने व्याघ्राद् बिभेत्येष चौरादुद्विजतेतराम् । अध्ययनादेः पराजेरसोढत्वे विवक्षिते ॥८॥ सोढुं नाध्ययनं शक्नोत्यध्ययनात् पराजयते ।। भूकर्तुश्च प्रभावात् प्रभवति हिमपर्वताद् गङ्गा ।।९।। योग्यादन्तर्धानस्थान्तर्त ह्य पाध्यायात् । जनिकः करणतो यथा शरो जायते शृङ्गात् ।१०।। ईप्सितामीप्सताभ्यां च पादाभ्यां रक्षणार्थके । गां रक्षति यवेभ्यस्तिलेभ्यो निषेधयत्यपि ॥११।। रक्षति स्वमहिभ्योऽन्धकूपाद् वारयति स्वयम् । अपार्योऽमीषु सर्वेषु ज्ञेयो धीसङ्गपूर्वकः ।१२।।। पञ्चमी कारकोक्तेर्या मतस्तु (तातु) पदपञ्चमी । आलो वधौ घनोऽवर्षदामेरोरामहार्णवात् ।१३।। वर्जने पर्वपाड्भ्यां योगे चोपाध्यायाज्जगृहे श्रुतम् ।
गम्यत्वपः कर्माधारे सौधात् पीठादपेक्षते ।।१४।। सौधमारुह्य पीठे चोपविश्येत्यर्थः ।
दिकशत्वकवहिरारात् प्रभुत्यन्यार्थतरैः दिक् । पुरस्तात् प्राच्यामुदीच्यां च वसन्त्यागन्तुका जनाः ॥१६।। दिशि दृष्टा यतः शब्दाद्दिक्शब्दास्तेन पञ्चमी । दिकशब्देन देशकालादिवृत्तिनाऽपि योगाः ।।१७।। एतदर्थे हि दिशब्दोऽन्यत्र शब्दग्रहः कृतः । प्रागज्जयिन्या गोद: कास्मी (श्मी) रे मलयादुदक् ।।१८।।
।। कालः ।। पूर्वो ग्रीष्माद् वसन्तः स्याद् ग्रीष्माच्च प्रावदुत्तरा। गम्यमानेऽपि दिकशब्दे कोशाद्वेध्यं स विध्याति ।।१९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org