________________
काव्यकल्पलतोवृत्तिः परिशिष्ट
नौकाकशुकशगालान्नं नावादिकगणो यमाकृतितः । नाभावेऽपि हे केचिल्लक्ष्यमिदं दर्शयन्त्येव ।।८८।। त्यादौ प्रदशितमितो विशेषो दर्श्यते कृति । तथाहि-द्वितीया बाध्यते षष्ठ्या नृजादौ च चतुर्थिका ।।८९।। न ते बुशाय मन्ताहं न बुशस्य तथाऽथवा षट्पदी। षष्ठी चतुर्थी संयोगे हि ते नव मुखेन च । रोगिभ्यो रोगिणामेकं लङघनं हि हितं सुखम् ।।९०॥ हितसुखभर्द्रायुध्यत्क्षेमार्थ श्वतुथिका षष्ठ्यौ । आशिषि तस्मै तस्य भूयात् सपर्ययेयम् ।।९१।। हितार्थस्तु हितं पथ्यं सुखार्थः सुखशर्मणी (णि)। भद्रार्थो भद्रमद्रे आयुष्यार्थश्चिरजीवितम् ।।९२॥ दीर्घायुः क्षेमार्थः क्षेमं कुशलं च निरामयम् । अर्थार्थः कार्यमर्थश्च प्रयोजनमपीरितम् ॥९॥ परिक्रयणे चतुर्थी च तथैव च तृतीयिका । परिक्रीतो मया मासं त्वं शताय शतेन वा ॥९४।। परिक्रीयते स्थाप्यतेऽमुना नियतकालकम् । भूत्या परिक्रयणं तन्मासपायादिवेतनम् ।।९५।। शतार्थवषट् स्वाहा स्वधा नमः स्वस्ति चतुर्युव । शक्तो मल्लो मल्लायेह क्षेमार्थकः स्वस्ति । क्षेमार्थे षष्ठ्यप्युक्तास्ते तद्वर्जनाच्चतुर्थ्यमुना ।। तुभ्यं स्वस्त्यस्तु यथा षष्ठ्यत्र न दीयते सुधिया ।।९७॥ यत्सहितनमःशब्दो लिङ्गन चतुर्थिका च तद्योगे । धात्वन्तरं परं, नमस्यतिरर्हतमसौ नमस्यति तत् ।।१८।। लब्धोऽवधिर्यतः शब्दादपैति क्रियया पुनः । अमुभ्यपायो विश्लेषस्तेनापादानतावधेः ।।९९।। स्थिरश्चलोऽवधिः द्वेधा द्विविधादपि पञ्चमी । वृक्षात् पतति पर्ण वाश्ववरोश्वा त्वधावत ॥१०॥ निर्दिष्टविषयोपात्तविषयोपेक्षिता क्रिया । अपायस्य त्रयो भेदा निर्दिष्टविषयो यथा ॥१॥ 'वृक्षात् पर्ण पतत्यत्र' वृक्षो निर्दिष्ट एव हि । ग्रामादाययुरित्येवमुपात्तविषयोऽधुना ॥२।। मेघाविद्योतते विद्युटत्र निःसृत्य मेघतः । विद्विद्योतते नात्र धुधातुर्निसृरादृतः ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org