SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ५२ Jain Education International सोपसर्गत्वे कर्म नैव, यथा- चैत्रमभिक्रुध्यति, अभिद्रुह्यति । चतुर्थी कारकस्येयमितः पदचतुर्थिका । भवेच्चतुर्थी तादर्थ्ये प्रतिमायै महाशिला ॥७३॥ रुच्यर्थे च चतुर्थी स्यात् परं प्रीतिस्पृहार्थकैः । 'किं धर्मो रोचते तुभ्यं' 'मह्यमन्नं च रोचते ॥ ७४ ॥ 'कथं श्रीः रोचतेऽन्येषां' 'मुमुक्षूणां न रोचते' । अत्र हि प्रतिभात्यर्थे रुचिर्न प्रीतिवांछयोः ॥ ७५ ॥ कृप्त्यथै: साविकाराथै': 'स्यान्मूत्राय यवागुका' । धारेरप्युत्तमर्णात्सा 'पित्रे गां धारयत्यसौ ॥ ७६ ॥ श्रुणोति नाच प्रत्याङ्भ्यामर्थनि स्याच्चतुर्थिका । प्रतिशृणोति गां देव्यैश्वाशृणोति बलि तथा ॥७७॥ प्रत्यनुभ्यां गृणातेः स्याच्चतुर्थी पूर्वकर्तरि । प्रतिगृणात्याचार्यायऽनुवाद्यनुगृणाति च ॥७८॥ दैवे निरीक्ष्ये राधीक्षि योगे लिङ्गाच्चतुर्थिका । कल्प शुभाशुभं ज्ञानी राज्ञे राध्यति वीक्ष्यते" ॥७९॥ उत्पातेन ज्ञाप्यमानाच्चतुर्थी स्यात् फलात्पुनः । 'वाताय कपिला विद्युत् आतपायातिलोहिनी' ॥ ८० ॥ श्लाघ् ह्र ुस्थाशपां योज्ये मैत्रादी स्याच्चतुर्थिका । मैत्राय श्लाघते किञ्च शपते तिष्ठते ह्नुते ॥ ८१ ॥ तुमर्थे भाववचनाच्चतुर्थी धातुतो भवेत् । पक्ष्यामीति व्रजत्यर्थे 'याति पाकाय पक्तये ॥८२॥ चतुर्थी गम्यतुद्याश्वे 'यात्येधेभ्यो वनं जनः' । एधान् याति समाहर्तुमित्यर्थोऽत्र विवक्षितः ॥८३॥ स्याद्गम्याद् ग्रामादेश्चतुर्थिका द्वितीयिका पक्षे । 'याति पुराय पुरं वा' 'यात्यध्वानं गतोऽध्वात्र' ॥ ८४ ॥ नैवात्र ग्राम इव गन्तव्योऽवास्ति किं नु गत एव । अध्वनि पदेऽपि दत्ते सर्वोऽप्यध्वा गतो ज्ञेयः ॥८५॥ कृतग्रामस्य गन्तेति षष्ठ्येव स्यात् परत्वतः । ग्रामं ग्रामाय वा गन्ता द्वौ प्रयोगो मतान्तरे ||८६|| मत्याप्यान्नञ्यनावादेः कुत्सा द्योतिपदाद् द्वयम् । न त्वां श्वानं शुने मन्ये न तृणं च तृणाय वा ॥८७॥ For Private & Personal Use Only काव्यकल्पलतावृत्तिः परिशिष्ट www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy