________________
काव्यकल्पलतावृत्ति परिशिष्ट
समयानिकषाग्राम हा जाल्म धिगुणद्विषम् । सन्ध्या स्थाद्दिवसं रात्रि चान्तरेणान्तराथवा ॥२९॥ न धर्ममन्तरेण श्रीविनार्थोऽप्येष सम्मतः । अतिवृद्धं कुरून्महद् समयेन पश्चिमाम् ।
गतस्तेन पश्चिमान्तां नीतो नीतिपरायणः ॥३०।। षट्पदी इति वृद्धं कुरूनिति कुर्विति क्रमेण वृद्धमित्यर्थः । हा धिक् द्वौ गद्देऽर्थेतरान्तरेणीध्वनिनिपातौ द्वौ । अन्यत्र निपातात् पुरि न रोधसऽत्यन्तरायां तु ॥३२॥ हा तात! धिग् जलोत्पादौ त्वामन्त्र्यस्य विचक्षणम् ।
बहुवचनादन्यत्रापि द्वितीया भवेत् यथा ॥३२॥ बभक्षितं न प्रतिभाति किचिञ्चत् ।
पादाग्रान्मस्तकं यावत् सूत्राद्यावच्च पञ्जिकां । यावत् शब्दस्य कालाध्यादिभेदः कस्यचिन्मते ॥३३॥ द्वित्वेऽधोध्युपरिभिरिहयुक्तान्नाम्नो द्वितीयका भवति । तत्राऽधोऽधो ग्रामं ग्रामा निवसन्ति मदमदिताः ॥३४।। सर्वोभयाभिः परिणात (णते) द्वितीये ह सर्वतो ग्रामम् । लक्षणवीप्सेत्थंभूतेष्वभिनावद् ममभि तडिदस्ति ॥३५।। लक्षणमस्तीहाहिममभिसमस्त्योषधमिह वीप्सव ।। साधुर्मातरमभिदेवदत्त इत्थं प्रकारोत्र इत्थम्भूतः किञ्चित् प्रकारमापन्नः ।।३६।। प्रतिपर्यन भियोगे द्वितीयिका भागि लक्षणाद्यर्थो यन्माम् ।
प्रतिपर्यनुतद्देयं शेषं स्वयं ग्राह्यम् ॥३७॥ वृक्ष प्रतिपर्यनु विद्युत्प्रतिपर्यनुतरं तरं सेकः । प्रतिपर्यनुजननीमपि साधुरयं लक्षणाद्युदाहायः ॥३८॥ हेतुसहार्थे ह्यनुना द्वितीयिका तीर्थमनुजनो मिलितः । भवति सहार्थे पर्वतमनुवसिता राजसेनेति ॥३९॥ पर्वतेन सह सम्बद्धे इत्यर्थः । अनु अव पूर्वखिञ बन्धने वष्टिभागुरिरल्लोपमवाप्योरुपसर्गयोरित्यनेन अवस्य लोपः ।
उत्कृष्टेनूपाभ्यां द्वितीयिकानुरविराश्रयो । महसां उपकुञ्जरं च बलवानुपार्जनं जगति योद्धारः ॥४०॥ क्रियाविशेषणे कालाध्वनोाप्तौ द्वितीयिका । इष्टेऽल्पं सगुडो मांसं क्रोशं वक्रा नदी तथा ॥४१॥ षष्ठी प्राप्ता बकमेरुकस्य कर्मणि द्वितीया स्यात् । आगामुकोऽस्ति भद्रं कमेः पुनः कामुको दास्याः ॥४२।। पप्पणिनिनः क्षत्कर्मणि षष्ठी वाधिकारा द्वितीयैव । ग्रामं गम्या गमी शतं च दायी कटं कारी ॥४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org