SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः परिशिष्ट पणायते व्यवहृतेर्यत् क्रियार्थं धनं यत किल । तत्कर्म वा द्वितीयास्मिन पक्षे सम्बन्धषष्ठिका ।।१५।। शतं पणायते प्रौढः, शतस्य च पणायते । 'शतं व्यवहरत्यन्यः' 'शतस्य च धनेश्वरः ॥१६॥ सोपसर्गदिवो व्याप्यं कोटि कोटे: प्रदीव्यति । दिवः त्वनुपसर्गस्य कोटेर्दीव्यति कर्मवान् ।।१७।। द्वे संज्ञे दिवकरणस्य युगपद्भवतो ध्रुवम् । कर्माख्या करणाख्या वाक्षान दीव्यति कर्मणि ।।१८।। करणेऽक्षर्दीव्यति तभिन्न भिन्नमिदं फलम् । अक्षर्देवयते मैत्रश्चंत्रणेत्यत्र संज्ञयोः ।।१९।। द्वयोः फलं तथा ह्यक्षस्तृतीया करणे भवेत् ।। कर्मत्वे तु फलं चैत्रेणेह कर्मास्ति युक्तितः ।।२०।। अनित्यत्वे तु यत्कर्म नित्याकर्मकलक्षणात् । फलं देवयतेरासीद्यत् परस्मैपदं न हि ।।२२।। अणिगिप्राणिकादि सूत्रेण तदकर्मकात् । भणितं युक्तितस्त्र चैत्रेणेत्यत्र कर्म तु॥२२।। अधिशीङस्थास आधारः कर्म स्थात् सौधिशेते क्ष्याम् । उपात्वे धाङ वसाधारः कर्मोपवसति द्रुमम् ।।२३।। वाभिविशश्चाधारः कर्मसंज्ञां प्रपद्यते । ग्रामं सोऽभिनिविष्टोऽद्य ग्रामे वाभिनिविष्टवान् ।।२४।। कालाध्वभावदेशानामाधारः कर्म वा भवेत् । अकर्म धातुसंयोगे कर्मण्युक्तेऽप्यकर्म च ॥२५।। 'मासं क्रोशं च गोदोहं', 'ग्रामं चास्ते पचत्ययम्' । अनाप्यो वा सिरविवक्षितकर्मा पचि पुनः ।।२६।। मास: कोशश्च गोदोहो ग्रामश्चैवास्यतेऽथवा । मासे क्रोशे च गोदोहो ग्रामे चास्ते तथास्यते ।।२७।। कारकस्य द्वितीयोक्ताऽधुनोपपदगोच्यते । समयानिकषाहाधिगन्तरेणान्तरातिभिः ||२८॥ १. 'अनित्कर्तेति यत्' दे.प, पा.प. १ । २. अणिगिप्राणिक दि' हे. व्या. ३. ३. १०७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy