________________
काव्यकल्पलतावृत्तिः परिशिष्ट
स्यादिविभक्तिविशेषा यथा--
प्रथमादिविभक्तीनां अथ प्राप्तिः प्रपञ्चयते । विभक्तिः प्रथमा ज्ञेया लिङ्गार्थेऽनधिके बुधैः ॥१॥ नवाधिके द्वितीयादिहेतौ कर्मादिकारके । लिङ्गार्थस्तु परिज्ञेयः सामान्येनाभिधेयवान् ।। २ ॥ कुन्ता प्रविशन्तीत्यादावप्युपचारमात्रकार्थेभ्यः । द्योतकवाचकलिङ्गार्थेभ्यो प्रथमाऽव्ययेभ्योऽपि ।। ३॥
आमन्त्रणे तथा कर्मादिकवद्वयतिरिक्तके । भेदे सति षष्ठी प्राप्तावपि स्यात् प्रथमा स्फुटम् ।। ४ ।। कर्ताप्ये द्वितीयोक्ता तन्निवादिसप्तधा । मुख्यमुक्तममुख्यं तु दुहादीनां प्रयोगजम् ।।५।। आशंसायां नाथै रुचादिता तद्वतश्च नान्यः स्यात् । कर्मविकल्पेन 'घृतं घृतस्य वा नाथते रोगी' ।। ६ ।। 'घतं मे भयादि'त्याशास्ते स्मृतयर्थदयेशां वा कर्मत्वं मातरं स्मरति मातुः । एवं 'मातरमध्येति' 'मातुरध्येति बालोऽयम्' ।। ७ ॥ अध्येति ध्यायति उत्कण्ठते स्मृत्यर्थाः दयते सर्षिः सपिरीष्टे च ।
मधु नो मधु यत्नज षष्ठी न समस्यते शेषे तदर्थकम् ।।।। 'षष्ठ्ययत्नाच्छेषे' इति व्या. सूत्रेण अयत्नजे विवक्षामात्रविहिते शेषे सम्बन्धे षष्ठयाः समासो भवति । यत्नजषष्ठीविशेषसूत्रजनिता षष्ठी पुनर्न समस्यते । तदर्थं विशेषसूत्रमिदम् । तेन मातुः स्मृतमत्र षष्ठीसमासो न स्यात् ।
कर्मकृतः प्रतियत्ने गम्यमाने विकल्पितम् । एधोदकस्यधोदकमुपस्कुरु यथाविधि ।।९।। रुजार्थे स्याज्जरिसन्तापेर्भावे कर्तरि ध्रुवम् । कर्म वा 'चौरं चौरस्य रोगो रुजति निश्चितः ।।१०।। 'तं श्लेष्मा रुजति' श्लेष्माद्रव्यं भावोऽत्र नो यतः । भावरूपा हि कर्तारो व्याधिरोगामयादयः ॥११॥ तमायूनं ज्वरयति सन्तापयति वाऽशनम् । जासनाटक्राथपिषो हिंसायां कर्म वा भवेत् ।।१२।। जासनाटीचरादी द्वौ घटादिक्रादिरिष्यते । 'उज्जासयति चौरस्य चौरं वा जगतीपतिः ॥१३॥ ने: प्रान्निः प्रात प्रर्हन्ते हिंसायां कर्म वा भवेत् । 'निहन्ति चौरं चौरस्य हन्तिः' प्रानिःप्रतः प्रणेः ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org