________________
४६
सम्प्रदानं तदेव स्यात् त्यागभावयुतं च यत् । दीयमानेन संयोगात् स्वामित्वं लभते च यत् ।। ६१ ।। 'रजकस्यांशुकं दत्ते' त्यागाभावोऽत्र विद्यते । 'भाटकेन गृहं दत्ते' विप्रस्य स्वामितात्र न ॥ ६२ ॥ यस्मादपायास्तदपादानं तदचलं चलम् । 'वृक्षात् पतति पर्ण' च 'धावतोऽश्वात् पपात' च ।। ६३॥ स्यादाधारोऽधिकरणं षष्ट्यकारं तु तद्विदुः । वैषयिक पश्लेषिकमभिव्यापकमेव
च ।। ६४ ।।
Jain Education International
एकदेशेन वियोगस्तपाश्लेषः समीरितः । यथा 'चैत्रः कटे आस्ते' 'गृहे तिष्ठति वा गृही' ।। ६५ ।।
यत्र
सर्वाङ्गसंयोगस्तदभिव्यापकं मतम् ।
मथा 'तिलेषु तैलं स्यात्' 'घृतं स्याद्दघ्नि' वा यथा ।। ६६ ।। नैमित्तिकं सामीप्यकमौपचारिकमन्तिमम् । विषयोऽनन्यत्रभावो 'दिवि देवाः स्थिता' यथा ॥ ६७॥ यस्य यत् स्यान्निमित्तं तन्नैमित्तिकमुदाहृतम् । 'युद्धे सन्नह्यते हन्ति दन्तयो कुञ्जरं' यथा ॥ ६८ ॥
समीपमेव सामीप्यं 'गङ्गायां घोष' उन्मदः । 'आकाशे शकुनिर्याति' 'गुरौ वसति भक्तिमान्' ।। ६९ ।। भवेद्यदुपचारात्तदौपचारिकमुच्यते । 'अङ्ग ल्य
करिशतंमास्ते' यद्वत् प्रकीर्त्यते ॥ ७० ॥ अस्याऽयमिति सम्बन्धः षष्ठ्युत्पत्तिस्तु सुख्यतः । तस्माद्भवन्ति सर्वाणि कारणानि विवक्षया ॥ ७१ ॥ एकशतं हि षष्ठ्यर्थाः स्वस्वामित्वादिभेदतः । स्वस्वामित्वे यथा 'भूमेः पतिः स्वामी गवामयम् ॥७२॥ जन्यजनकसम्बन्धो 'जगतः पितरौ' यथा । वध्यवधकभावे तु यथा 'कंसस्य हिंसक': ।। ७३ ।। भोज्यभोजकभावे तु 'अहेर्भोक्ताऽस्ति बर्हिणः । धार्यधारकभावे च यथा 'छत्रस्य धारकः ' ।। ७४ ।।
'जिनो जयति जैनेन' 'क्रियते प्राणिनां दया' । 'स्नानीयं स्नात्यनेनेति' 'दानीयोऽस्मै तु दीयते ॥७८॥
'बिभेत्यस्मादसौ भीमः ' 'तस्मिन्नास्यत आसनम्' । 'गोमान् सन्त्यस्य गावो हि' प्रोक्तान्युक्तान्यमून्यहो ॥ ७६ ॥
इति श्रीवायटगच्छीयश्रीजिनदत्तसूरिशिष्यपण्डित श्रीमदरविरचिते स्वोपज्ञ - काव्यकल्पलता विवेचने परिमलनाम्नि छन्दोऽभ्यासस्तबकोल्लासी कर्त कर्मादिविशेषवीक्षणश्चतुर्थः प्रसरः ॥ छ। ग्रं. ८५
काव्य कल्पलतावृत्तिः परिशिष्ट
For Private & Personal Use Only
www.jainelibrary.org