________________
४४
काव्यकल्पलतावृत्तिः परिशिष्ट
वृद्धि जीवति सत्ताहीस्थितिजागरणार्थकाः । रुच क्रीड़ा मृतिभीस्वापदीप्त्यर्थाद्यास्त्वकर्मकाः ।।३०।। इनः पूर्वं तु यः कर्ता स्यादिनन्तेषु कर्म सः । तत्कत कर्मविज्ञेयं पुनरेष्वेव धातुष ।।३१।। बोधाहारगतिजल्पार्थनित्या कर्मधातुषु । भवत्येतद्यथाचार्यः शिष्यं बोधयति श्रुतम् ।।३२।। बोधार्थाः सामान्या ज्ञानार्था स्यः यथैव हि । तथाऽमी इन्द्रियगम्यार्था अपि दृशघ्रास्पृशध्यस्मृतुल्याश्च ।।३३।। 'गमयति रमणी रमणेनात्र' गमिरस्ति भजनार्थः । गत्यर्थ एव पार्थ गमयति समरं रमारमणः ॥३४॥
खादि कंदि अदि शब्दा यनीह्वनि कर्तृ कर्मका: । वाहा सारथिकर्तृत्वे तथा भक्षिरहिंसने ।।३५।। यथा 'खादयते खाद्यं पुत्रेण प्रीतिमान् पिता' । यथा 'वाहयति ग्रामं भारं भृत्येन भूपतिः' ।।३६।। 'सस्यं वायति ग्राममुक्षाणं सारथिः' पुनः । यथा 'भक्षयति प्रीत्या चैत्रा मैत्रेण मादकान्' ॥३७।। पुनर्भक्षयते कोऽपि कीटकान् गृहकुक्कुटः । कतः होरपीनन्ते कर्म वा जयते यथा ॥३८।। 'भारं भृत्येन भृत्यं वा ग्रामं हारयते नरः ।' कर्तात्मनेपदे दृश्यभिवाद्योः कर्म वा भवेत् ।।३९।। लोकं लोकेन वात्मानं नृपो दर्शयते यथा । 'अभिवादयते पूज्यं पुत्रं पुत्रेण वा पिता' ॥४०॥
कैश्चिच्चौरादिकस्याप्याभिवदेः कर्म चेष्यते । षट्पदी । वा कर्मत्वमनित्कर्तुरविवक्षितकर्मणाम् ।। 'पाचयत्येष मैत्रेयश्चैत्र चैत्रेण' वा यथा ।।४।।
त्यादिनाऽथ समासेन तद्धितेन कृता अपि । उक्तत्वं कर्मणः 'कुम्भः कुलालौ क्रियते' यथा ॥४२॥
आरूढवानरो वृक्षः शत्यश्च शतिक: पटः । शतात्केवलादेतस्मिन् यकी कृतः कट: तथा ।। तैरेकस्याथ चाधातो: द्विकर्मिणः ।।४३।। उभयत्वाप्युक्तत्वं बोधाहारार्थशब्दकर्मवताम् । इति सति 'शिष्यो धर्म शिष्यं वा बोध्यते धर्मः' ॥४४॥...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org