SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः परिशिष्ट यथाऽनक्तत्वभेदोऽपि प्रस्तावादिह कथ्यते । यथा 'सरस्वती देवी छात्रवृन्देन वन्द्यते' ।।१५।। यत् क्रियते तत् कर्म स्याइँदैश्च तदनेकधा । निवत्यं च विकायं च प्राप्यं च धमिष्यते ।।१६।। पुनस्त्रिधा भवेदिष्टानिष्टानुभयभेदतः ।। तथैव कथितं कर्म कृर्तकर्म तथापरम् ।।१७।। यदसज्जायते यच्च जन्मना वा प्रकाशते । तन्निवयं करोत्येष कटं सूते सुतं' यथा ॥१८॥ सतो गुणान्तराधानात् प्रकृत्युच्छेदतोऽपि वा । संपद्यते* यद् विकृति तद्विकार्य विदुर्बुधाः ।।१९।। कुण्डलीकुरुते हेमकाष्ठं दहति पावकः । क्रियाकृतो विशेषस्तु यत्र नास्ति कदाचन ॥२०।। तत् प्राप्यं स्यात् यथादित्यं पश्यत्यमललोचनः । यदीप्सितं तदिष्टं स्याच्छिशुरत्ति यथोदनम्' ॥२१॥ द्विष्टं यत् प्राप्यते तत् स्यादनिष्टं भुजगादिकम् । यथाहिं लघयत्यन्धोऽथवा मृदृनाति कण्टकान् ॥२२।। यत्र नेच्छा न च द्वेषस्तत् स्यादनुभयं यथा । 'ग्रामं गच्छंस्तरोर्मूलान्युपसर्प' ति मार्गगः ॥२३॥ दुहादीनां प्रयोगे च द्वितीयं कर्म यत् किल । 'देवेदं कथितं' तच्च यथाऽसौ दोग्धि गां पयः' ॥२४।। यच्चोपयुज्यमानं पयः प्रभृत्यत्र तद्भवेन्मुख्यम् । यत् तन्निमित्तमपरं तद्गौणं गोप्रभृत्येव ।।२५।। भारादिनीयमानं नीवह्यादेः प्रधानकं कर्म । तत्तत्पादावुक्तं न यो ग्रामं यथा भारः ।।२६।। दुहि याचि रुधि प्रच्छि रुभिक्षि अवि शासि चिञर्थकाः । नीवह्निजिमोषिदं डिमोदिकर्षिमंथिहन्मुखाः ॥२७।। अपादानादिकविधि बाधित्वा धातवो ह्यमी । द्विकर्मका भवन्तीति कथिताः पूर्वकोविदः ॥२८॥ कृतकोपं याचति शममविनीतं याचते विनयम् । इह याचिरनुनयार्थो भिक्षार्थादस्य तद्भेदः ।।२९।। • प्रपद्यते-दे.प., पा. १-२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy