________________
४२
काव्यकल्पलतावृत्तिा परिशिष्ट
कर्तृकर्मादिविशेषा यथा--कायकाणि कर्ता, कर्म, करणं, सम्प्रदानकं, अपादानमाधारः षट् स्युः, सम्बन्धश्च सप्तमः ॥१॥
"इति कृच्छस्योद्धारः स्यादित्यादि शब्दास्तद्धिताख्यातकृच्छशब्दाश्च मत्कृतशब्दसमुच्चयात् ज्ञेया: ।।छ।। इति वायटगच्छीय श्रीजिनदत्तसूरिशिष्य श्रीमदमरचन्द्रविरचिते स्वोपज्ञकाव्यकल्पलतावृत्तिविवेचने परिमलनाम्नि छन्दोऽभ्यासस्तबकोल्लासी तद्धिताख्यातकृच्छब्दकीर्तनस्तृतीयः प्रसरः ॥छ।। ग्रं. ६००
उक्तानुक्ततया द्वेधा कारकाणि भवन्ति षट् ।। उक्तेषु प्रथमैव स्यादनुक्तेषु क्रमादिमाः ।।२।। कर्मणि द्वितीया कर्त करणयोः तृतीयिका । सम्प्रदाने चतुर्थी स्यादपादाने तु पञ्चमी ॥३॥ आधारे सप्तमी सम्बन्धे षष्ठीति विभक्तयः । इह संक्षेपतः प्रोकता वक्ष्यन्तेऽग्रे सविस्तराः ।।४।। यः करोति किमप्येष कर्ता स त्रिविधो मतः । स्वतन्त्रो हेतुकर्ता च कर्मकर्ता तथापरः ।।५।। न परैः प्रर्यते यस्तु स्वतन्त्रो गौः प्रयातिवत् । यः पुनः कारयत्यन्यं हेतुकर्ता स कथ्यते ।।६।। अनेककत के मुख्यं कर्तारं प्रत्ययो वदेत् । 'भपतिः सूपकारेण पाचयत्योदनं' यथा ॥७॥ मुख्यस्तु स प्रयोक्ता यश्चेत् प्रयुक्तः स नापरैः । यथा चैत्रेण मैत्रेण श्रियं पोषयति प्रभुः ॥८॥ हेतकर्ता त्वसौ त्रेधा प्रेषकोऽध्येषकः परः । तथानुकूल्यभागी च तृतीयः कथितो बुधैः ॥९॥ प्रभुत्वेन प्रयुक्ते यः प्रेषकोऽयं प्रकीर्तितः । यथा 'भृत्येन भूपालः कारयत्युन्वणं रणम्" ।।१०॥ सत्कारपूर्वकं यस्तु नियुङक्तेऽध्येषकस्तु सः । नरः श्रद्धापरः कोऽपि गुरुं भोजयते यथा ।।११।। न प्रेषते नाऽध्येषते यःस्वानुकूल्यभाग्य (कह य )सौ । चेतनाचेतनत्वेन स पुनर्द्विविधो मतः ।।१२।। चेतनो 'जनकं पुत्रो यथा हर्षयति स्फुटम् । अचेतनस्तु ‘कारीषोऽग्निरध्यापयति द्विजः' ।।१३।। स्वव्यापारं यदा कर्ता कर्मण्यारोपयेत् तदा । स्यात् कर्मकर्ता 'पच्यन्ते शालयः स्वयमेव तत्' ।।१४।।
१. केषुचित्पुस्तकेषु विशेषमिदं, दे. प., पा. प. मध्ये नास्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org