SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः परिशिष्ट भावे भवः नाम्नि उपपदे भुवो भावे क्यप्भवति । ब्रह्मभूयं गतः ब्रह्मत्वं गत, इत्यर्थः । ब्रह्मणो भवनं, क्यपनेन द्वितीय: पाद: । तुंदशोकयोः परिमजापनुदोः, तुदशोकयोः कर्मणोरुपपदयोः । परिमजापनुद्भ्यां को भवति ? यथासंख्यं तुन्दं परिमाष्टि । तुन्दपरिमजः अलस एवाभिधीयते; तुन्दपरिमार्जोऽन्यः शोकमुपनुदति शोकापनुदः । आनन्दकर एव शोकापनोदो धर्मकथकः, पक्षे कर्मण्यप् ॥छ।। ___ फले मल रजः सुग्रहे । एषु कर्मसूपपदेषु ग्रहेरिर्भवति-फलानि गृह णातीति फले ग्रहिः । सूत्रनिपातनादेत्वं मलग्रहिः, रजोग्रहिः ।।छ।। आत्मोदरकुक्षिषु भृञः खिः । ग्षु कर्मसूपपदेषु कृञः खिः भवति आत्मभरिः, उदरंभरिः, कुक्षिभरिः, आत्मानमुदरं कुक्षिमेव बिभर्ति । व्यञ्जनान्तस्य युस्सुभोरित्यतिदेशबलादात्मनो लिङ्गातनकारलोपः ह्रस्वारुषोर्मोऽन्तः, त्रयोप्युदरिके ॥छ।। कूलमुद्रजोद्वहोः कूले कर्मण्युपपदे उद्रजोद्वहोः खश भवति-कूलमुद्रजति, कूलमुद्रजा नदी, कूलमुद्वहः समुद्रः; रुजोभङ्गे कूलमुद्रजत्युद्वहति ॥छ।। वहलिहं. अभ्रंलिह. परंतपेरमंडाश्च । एते खशं वा निपात्यन्ते, वहलिहो गौः, अभ्रंलिहो वायः, परंतापयतीति रन्तपः, इरया माद्यति इरंमदः । वहन्त्यनेनेति वहः स्कन्धवहः । अभ्रंलेढि-अण प्राप्ती खशं, तेन परं तापयतीत्यत्र निपातनाद्वि ह्रस्वश्च तथा । द्विषंतप इत्यत्र निपातनात् द्विषं तापयतीति । कृते कृश प्रभृतिक स्त्रियां द्विषती तापः, अनिनं द्विषत्तापः, परतापः कर्मण्यन् । चकारात् वातमजन्ति वातमजामगाः । शुद्धं जहन्ति, श्रद्धं जहामो, खशन्तो निपातः ॥छ।। सर्वकरवः खलः, कलंकषा नदी, अभ्रंकषो गिरिः, करीषं कषा वात्या ॥छ।। क्षेमप्रियमद्रेष्वग्रे एषु कर्मसूपपदेषु कृञः खः भवति। अण्वक्षेमंकरः क्षेमकारः, प्रियंकरः प्रियकारः, मद्रङकर मद्रकारः ।। व्या. क्षेमप्रियम,भद्रात् तेन भद्रंकरः भद्रकारः ॥छ।। गमश्च नास्त्युपपदे, गमश्च संज्ञायां खः, सुतं गच्छति सुतंगमो मुनिः; भुजाभ्यां गच्छति भुजङगमः; मितं गच्छतीति मितंगमो हस्ती; पूर्वं हृदयं गच्छतीति (गच्छन्तीति ?) पूर्वगमाः पन्थानः, हृदयंगमा वाचः, नभ (भः) सङगमः पक्षी । आदन्तोऽपि नभशब्दः; जनंगमश्चण्डालः ।।छ।। अपक्लेशतमसोः क्लेशतमसोः, कर्मणोरुपात्परतो हन्ते? भवति । क्लेशापहः, तमोपहः, दु:खापहः, द्वारापहः वातपित्तकफापहः, विषाग्निदापहः-वातपित्तकफान् विषाग्न्योः वा दर्पमपहन्ति । 'अन्यतोऽपीति' वचनात् क्लेशादेरपात् डो भवति ।।छ। नग्नपलितप्रियान्धस्थूलसुभगाढ्येष्वभूततद्भावे कृाः ख्युट करणे । अभूततद्भावेषु वर्तमानेषु नग्नादिषपपदेषु कृञ: ख्युट भवति । अनग्नो नग्नः क्रियते अनेन । नग्नकरणं द्यूतम् । एवं पलितंकरणं तैलम् । प्रियंकरणं, शीलं । अन्धकरणं, शोकः । स्थूलं करणं, दधि। सुभगं करणं रूपं । आढ्यं करणं, वित्तं । अनग्नकरणमित्यादि । तदन्तविधिर्नास्तीति । अभूततद्भाव इति कि? आढयं करोति, तैलेन अभ्यंजयतीत्यर्थः ।।छ।। भुवः खिणु खुकनो कर्तरि । अभूततद्भावे नग्नादिषूपपदेषु भुवः खिष्णुषु कनो कर्तरि च भवतः । नग्नं भविष्णु:, नग्नं भावुक:; पलितं भविष्णुः, पलितं भावुक:; प्रियं भविष्णुः, प्रियं भावुकः; अन्धं भविष्णुः, अन्धं भावुकः; १. 'भावेभुवः...द्वितीयः पादः' इदं दे. प. पुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy