________________
३८
काव्यकल्पलतावृत्तिः परिशिष्ट
यथा-परानोः कृञ इत्यनेन विशेषतः । परस्मैपदे विहिते सति सतिनात्मनेपदं-पराचिकीर्षति अनुचिकीर्षति । तथा गुपादिनां प्रागप्रयोगेऽपि सत्यर्थविशेषे आत्मनेपदं यथा-जुगुप्सते इत्यादौ गुपोवधे अनिन्दायामित्यादयोऽर्थाः । अत्र सेऽनन्तादन्यत्र स्वेच्छा, यथा-जगप्सयति, मीमांसयति ॥छ।।
शेषात् कर्तरि परस्मैपदं। येभ्यो धातुभ्य आत्मनेभाषा उभयतो भाषा इति श्रतिरस्ति, येषां च रुचादिगणेनात्मनेपदं विहितमस्ति; तेभ्यो धातुभ्योऽन्यो धातुः शेषः । तस्मात् कर्तरि परस्मैपदं भवति-अतिजहोति, तुदति, विशति, पुत्रीयति । परातो: कृगः-पराकरोति अनुकरोति । प्रत्यभ्यतिभ्य: क्षिपः-प्रतिक्षिपति, अभिक्षिपति, अतिक्षिपति । प्राद्वहः-प्रवहति । परेम॒षवहो:-परिमृष्यति, परिवहति । योऽ परिभ्यो रमः-विरमति, आरमति, परिरमति । उपात् सकर्मकादन्त तेनर्षाद्रमः । देवदत्तमुपरमति, निवर्तयतीत्यर्थः । वक्तव्यबलादेषां सिद्धिः । तथा चुरादिभ्यः परस्मैपदिभ्यः परस्मपदमेव नात्मनेपदमिति व्याख्यातात् । तथा अणि प्राणिकर्तृकाना (म)प्यणिग:-आशयति चैत्र, शते मैत्रः, शाययति मंत्रम् । अनिनवस्थायां प्राण्येव कर्ता । इति प्राणी अप्राणी चेति स्वेच्छा (तः) ३. अनेन प्राणिकत कादिति कि? शुष्यन्ति बीहयः, शोषयते व्रीहीनातपः । श्लोक: --
परस्मैपदमद्याप्यादित्यनिन प्राणिकर्तृकान् ।
शाययत्याभयत्पारं वुसाप्यात् कारयते कटम् ।। स्वार्थेऽनन्तात् तु न परस्मैपदं स्याच्चुरादितः । यथा
'अज्ञाननिद्रानिबिडोपगढे राजन्यके चेतयते य एकः ।' इति रघु: । चल्याहारार्थे ड् बुध युध कद्रु श्रुनशजूनः । चल्यर्थ:-चालनं स्थानान्तराक्रमण, चलयति कम्पयति आहारार्थः । भोजयति आशयति चैत्रमन्नम् । इन् अध्येयति, बोधयति, योधयति, प्रावयति, द्रावयति, श्रावयति, नाशयति जनयति पुण्यं । अप्राणिकर्तकार्थ समकर्मकार्थं प्रवचनं । कथं शिरः कम्पयते युवा। चालनार्थत्वात् परस्मैपदमनेन प्राप्नोति । सत्यं नाऽत्र चालनं स्थानान्तराक्रमणं। कि चमत्कारसूचनं, स्तब्धतामात्रधारणं, अन्तविस्मयप्रकाशनमात्रमत्र चालने स्थानान्तराक्रमणे स्यादेव परस्मैपदं ।
यथा
कम्पयति भुवनमनिशं वीरः सकृदवसरेऽपि विक्रान्तः ।
न खलु धननमात्रं चालनं किन्तु स्थानान्तरोत्पाटनम् । यथा-- "सुस्थितं दुस्थितं वाऽपि शिवलिङ्गं न चालयेत्"१ इत्याख्यातशब्दोद्धारः ।
अथ केचित् कृतशब्दा लिख्यन्ते-सत्यागदास्तूनां कारे, सत्यादीनां कारशब्दे परे मोऽतो भवति । सत्यकार:, अगदंकारः, अस्तुंकारः । सत्यमगदनमस्तु, करोति । कर्मण्य निवृद्धिरनेन सोऽन्तः । अन्यत्रापि मकारवणगिमो दृश्यते । प्रीङ प्रीणाति कश्चित्तं प्रीणन्तमन्य प्रयुक्ते इति । धूञ प्रीणात्यौर्णः । णत्वं, प्रीणनं, प्रीणः । अल्कारि स्य लोपः लोकस्य प्रीणो लोकप्रीणः, लोकस्य प्रीणे मोऽन्तः । निपातनाल्लोकं प्रीणः इत्यपि । ब्या. लोकं पणमध्ये दिनानभ्यासमित्यं इत्येतदन्यपूर्वस्य अभ्यास:-शब्दस्य मोऽन्तः । एवं पृणप्रीणतो इति निर्देशादुभयमपि प्रमाणम् । तथा च पाणिनिरपि 'काकस्य पृणे' इत्युकावान् । भद्रकरणं उज्झं (ष्णं)करणं, क्रियतेऽनेनेति करणाध्रीति युट । अनिगुण: भद्रस्य उष्णस्य करणं । भद्रोष्णयोः करणे मोऽन्तः । मध्यं च तद्दिनं च मध्यंदिनं, (दिन)स्य वा। मध्य स्य दिने मोऽन्त: प्रथमः पादः ॥छ।।
१. 'चलयति कम्पयति. . . राक्रमणम्' इदं दे. प. पुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org