________________
काव्यकल्पलतावृत्तिः परिशिष्ट
आद्यन्ताच्च आयिप्रत्ययान्तात् कर्तर्यात्मनेपदानि भवन्ति-हंसायते, पयस्यते । अत्राप्यन्तशब्दादायि लोपेनात्मनेपदंदरिद्रति, घटप्ति ॥छ।।
इना यजादेरुभयम् । इनंताञनुबन्धाद्यप्पादेश्चोभयपदं भवति । अनन्तादित्युक्तेऽपि नामनन्तो न गृह्यते अभिधानात् । तथा चौरिरादिक: स्वार्थेऽनन्तोऽपि न गृह्यते । तत्र परस्मैपदात्मनेपदग्रहणात् किन्तु हेत्विनन्त एव गृह्यते । यथा--कारयति कारयतेऽजनुबन्धः । सुनोति सुनुते, कंड्यति कण्ड्यते । यथारुच इत्यपलक्षिता अनुदात्ताः सर्वे रुचप्रकाराः आत्मनेपदिनस्तथा। यज इत्युक्ते समाहाराः । सर्वेऽपि यजप्रकाराः उभयपदिन: यजति यजते, पचति पचते।' अत्र फलवत् कर्त प्रतीता चात्मनेपदमफलवति परस्मैपदमयमप्यर्थोऽवगन्तव्य इति मतम् । तथाहि परसूत्राणि। स्वरितजितः कत्रभिप्राये क्रियाफले कोऽर्थः ? स्वरितः समाहारश्च अनुबन्धश्च तत्तथा। तस्मादात्मनेपदं कर्तति तथार्थक्रियारभ्यन्ते यत्क्रियाया: प्रधानभूतं चेत् कर्तारमभिप्रेति; तच्चेत् कर्तुः क्रियावाच्यं फलं भवतीत्यर्थः । यजते पचते कुरुते। गौणफले दक्षिणा चेतनादौ न स्यात् । यजन्ति याजकाः, पचन्ति पाचकाः, कुर्वन्ति कर्मकराः । अत्र कारयितुः पाचयितुमुख्यं फलं, तथा णिचश्च । इनन्तात् फलवत्यात्मनेपदं । यथा-भावयते २ अपाद्वदः ३. अनुपसर्गात् ज्ञः । उभयत: फलवत्यात्मनेपदं यथा-उपवदते, जानीते । परिमुहायमाय सोपाधिद्वदवसदमादरुच नृतः फलवत्यात्मनेपदपदं -परिमोहयते चैत्रमित्यादि । ४. समुदायोऽयममरुग्रंथे फलवत्यात्मनेपदं-संयच्छते व्रीहीन प्रभृति । ५.पदान्तरगम्ये वा । अनन्तरसूत्रपञ्चकेन यदात्मनेपदमुक्तम्, तत्पदान्तराद् गम्ये फलवति कर्तरि आत्मने परस्मै वा भवति । यथा-स्वं यज्ञं यजते यजति वा । स्वं कटं कुरुते करोति वा । स्वं शिर कण्डूयते कण्डयति वा । स्वमश्वं गमयते गमयति वा । स्वं शत्रुमपवदते अपवदति वा। स्वातं जानीते जानाति वा । स्वं शत्रु परिमोहयते' परिमोहयति वा । स्वान् व्रीहीन संयच्छते संयच्छति वा। एतत्फलवति कर्तरि परोक्तम् । किन्तु अफलवत् कर्तर्यात्मनेपदं दृश्यते यथा-वृक्षं परिवारयन्ते कण्टकाः, शोषयते वीहीनातपः, कण्टकातपयोरत्र न फलं, किन्तु भोक्तुरेव । तथा च तव दर्शनं किं न धत्ते। द्रष्टः फलमत्र । तथा च मयूरः कमलवनोद्धाटनं कुर्वते । अत्र रश्मीनां न फलं, किंत्वन्येषां । माणवकं ब्रूते । अत्र कर्मणः फलं, मरीचीन वितनुते । अत्र लोकस्य फलं न रवेः । यतो मरीचिविध्वस्ते तमसि तत् कर्मप्रवर्तनात् । अपदान्तरद्योत्येऽपि दृश्यते। यत्र पदान्तरमृतेऽपि स्वपदादेव फववत् प्रतीतिस्तत्रापि परस्मैपदमिति । तथा च भारविः-'तनोति शुभ्रं गुणसम्पदा यशः (किरात.१.)' स्वपदादेवात्र कर्तुः फलं । न तु यथारुचप्रकारा अनुदाताः धावतः सर्वेऽऽप्यात्मनेपदिनोभण्यन्ते । तथा यज इत्युक्त्ते यजादयः समाहारानुबन्धा उभयपदिनो ग्रहीष्यन्ते । किमादिग्रहणेन सत्यं दण्डादिपरिग्रहार्थम् । अत्र सूत्राणि 'डाच लोहितादेरायें' (हे. व्या. ३.४-३०)वा 'धुतादिभ्योऽद्यतन्यां वा' (हे. व्या. ९.२, १३५) वृतादेर्वा पञ्चतः स्यसनौ । कृप: श्वस्तन्यां, द्युतादिभ्यव्युह्योऽद्यतन्यां, स्यसनोक्तादिः । कृपस्य सन् स्वस्तनिकाप्रयोगे डाच । प्रत्ययान्तादलोहित्रादेरायौ विकल्पेन रुचादिता स्यात् । अद्य तत पुषादिसूत्रादण् । व्यद्योतिष्ट द्युतादयो द्वाविंशतिद्वर्यादिमध्ये एषामात्मनेपदिनां परस्मैपदमात्मनेपदविकल्पनाद् भवति । स्यसनोवतादेर्यथा-द्यतां मध्ये वृत् वध स्यन्द् कृप पञ्च वृतादयः । वश्यन्ति वृतादेरिट, नस्येसनि परस्मैपदे वर्तिष्यते अवय॑त् ; अवतिष्यत, वय॑न् ; वर्तिष्यमाणः, विवृत्सति, विवतिषते । एवं कृपः कल्पिष्यति कल्पिष्यते; विकृप्स्यति विकल्पिषते; कल्पाप्ताऽसि श्वस्तं सतां च कृप्यन वेट। आत्मने कल्प्तासे कल्पितासे। अथ डाच-पटपटायति पटपटायते; लोहितादिगण: लोहितायति लोहितायते, इत्यादि ।।छ।।
पूर्ववत्सनंतात् पूर्ववदिति-कोऽर्थः ? धातोः स्वानुबन्धगणपाठप्रत्ययोपपादार्थविशेषसूत्रर्यथा पदं सनः प्रागुक्तं, तथा सन्नतादपीति सम्बन्धः । अनुबन्धेन शेते शिशयिषते गणेन एषः । एधते पदिधिषते चेक्रीयितेन लोलूयते लोलयिषते आप्यं; तेन श्येनायते शिश्येनायिषते; उपपदेन निविशते निविचकृते । अश्वेन संविचरिषते, अर्थेन शास्त्रेऽस्य क्रमते बद्धिः । विकंसते अस्खलनमत्रार्थः । अर्थोपपदाभ्यां द्वयेन-आक्रमते चन्द्रः, आविक्रंसते सूर्यः । यत् पुनः सप्रत्ययधातुनिमित्तं तन्न । निशि शश्यति । मुमूर्षति मृडोऽन् । आशीरद्यतन्यो निमित्तं । अनुबन्धे सत्यपि यद्विशेषविहितं कार्यं तन्नातिदिश्यते ।
१ ६ यज इत्युक्ते'. . . . पचते'-अत्र 'यज' स्थानेसर्वत्र 'जय' इति-पा. प. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org