________________
३४
तथा जाने संख्यास्तव सह मया । तथा न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् । तथा-
सोपधानां धियं धीराः स्थेयसीं दूषयन्ति ये ।
तत्राऽनिशं निषण्णास्ते जानते जातु न श्रमं । माघः ॥
काव्यकल्पलतावृत्तिः परिशिष्ट
अकर्मकत्वे सर्पिषो जानीते । अज्ञाने ज्ञः षष्ठी । अत्राज्ञानवशेन सर्पिः कर्मभूतमपि संबंधषष्ठ्या ज्ञानया कर्मत्वं त्याजितम् ॥ छ ॥
दीप्तिज्ञानयनोपच्छन्दनेषु च दः । अनोरकर्मकः । विगतौ । व्यक्तं सहोक्तौ तयोर्वा नित्यमिति च फलवत्यपपूर्वान् । वदिरात्मनेपदी स्याद्दशधोपच्छन्दने विमतिदीप्त्योः । कर्मणि सत्यप्यसति च विषये ज्ञानस्य यत् तस्य ५ । अनुतः कर्माभावे ६, फलवत्त्वेऽपाच्च कर्मसंयोगे ७, व्यक्तं सहोक्तौ नित्यं ८, वादे वा नित्यमिति च फले १०/१ । उपच्छंदनशब्देन उपसंभाषणं उपालम्भ: उपसांत्वनं सर्वमपि भण्यते । उपसंभाषणे कर्मकरानुपवदते, उपसंभाषणादिभिरानन्दयतीत्यर्थः । उपालम्भे उपसान्त्वने च । कुलभार्यामुपवदते । नानामतिर्विमतिः, धर्मो विवदन्ते, विविधं जल्पन्तीत्यर्थः । दीप्तिर्भासनं, वदते विद्वान्, व्याख्याने वदन् देदीष्यते । ज्ञाने वदतो धीमान् तत्त्वार्थे निःसन्देह इत्यर्थः । यत्न उत्साहः, श्रुते वदते, रणादिकार्येषु वदते, सोत्साहः स्यादित्यर्थः । अनोरुपसर्गात् परः अनुवदते, चैत्रो मैत्रस्य अनु सादृश्ये पश्चादर्थे वा चैत्र इति वदति । चैत्रानन्तरं वदति चेत्यर्थः । फलवत् कर्तर्युपपूर्वाद्यथा - अपवदते प्रतिवादी, वादिनोक्तमनुवदति । स्वजयार्थं अफलवत्त्वे अपवदति, परं निन्दतीत्यर्थः । व्यक्तं सहोक्तौ व्यक्तवाचो रूढया मनुष्यादयस्तेषां सहोच्चारणमित्यर्थः । संप्रवदन्ते स्वजयार्थं अफलवत्त्वे अपवदति, परं निन्दतीत्यर्थः । ग्राम्याः सम्भूय भाषन्ते इत्यर्थः । व्यक्तादन्यत्र संप्रवदन्ति शुकाः । शुकसारिकयोर्व्यक्त वाक्काक्वेऽपीच्छन्ति संप्रवदन्ते शुकाः । संप्रवदन्ते सारिकाः । अव्यक्तवाक्वे तु संप्रवदन्ति, शकुनयो नानारुतं कुर्वन्तीत्यर्थः । विवादे वा तथा सहोक्त्यर्थव्यक्तवाचाविवादे वा स्यादिति व्यक्तवाचां सहोक्तौ विवादरूपायामित्यर्थः । विवदन्ते विवदन्ति वा मौहूर्ताः परस्परप्रतिषेधेन युगपद्विरुद्धं च वदन्तीत्यर्थः । इति फलवत्त्वविवक्षायां वादयते शिशुम् १० ॥छ ।
अवाद्गिरः समः प्रतिज्ञायां, अवादिगरतोक्त्यादेरवगृणाति तु समो गिरः । प्रतिज्ञायां शतं संगिरतेऽर्थिनि ॥ छ ॥
किरादिश्रंथिसन्नंताकर्मकर्त स्था: दुह अद्यतन्यां स्वरान्तश्च वा । सु नमो स्वयं किरादीनि । आदिशब्दः प्रकारवचनः, किरति प्रकाराः किरादयः । शिष्टप्रयोगगम्याः स्वभावादन्तर्भूतकारितार्थाः । कर्मकर्तृस्थत्वात् कर्मकर्त भावः । प्राप्तस्तदपवादः। कर्तर्यात्मनेपदं विधीयते । अवकारयति हस्तिनं हस्तिपकः, अवकिरते हस्ती, स्वयमेव श्रध्नाति मालां मालिकः, श्रथ्नीते मालाः स्वयमेव । एवं ग्रथ्नीते मालां स्वयमेव । चिकीर्षति कटं स्वयं देवदत्तः, चिकीर्षते कटा स्वयमेव । age इति - दुग्धे गौः स्वयमेव । अद्यतन्यां स्वरान्तश्च वेति, अत्रापि कर्मकर्त स्थ एव । अद्यतन्याविषये यः स्वरान्तो धातुश्चकारेण दुहिरनुकृष्यते कर्मकर्त स्थो वा रुचादिरित्यर्थः । अकार्षीत् कटं, अकृतकटः स्वयमेव, अकारि कटः स्वयमेव । अलविष्टकेदारः स्वयमेव, अलाविकेदारः स्वयमेव, अदुग्धा गौः स्वयमेव, दुह्यते स्वयमेव । पयो मुञ्चतीत्यर्थः । दुहदिहलिहगुहां सण् विकल्पाः । पक्षे सिजपि नास्तीति । अदोहि गौः स्वयमेव ॥ छ ॥
सुनमा स्वयमिति, कर्मकर्तृस्थ इति, निर्वृत्तं स्वयमधिकृत्य कर्तुं विशेषणम् । स्वयं कर्तरि अनन्यप्रेरिते कर्तरीत्यर्थः । प्रस्तुते गौः स्वयमेव, नमिरन्तर्भूतेत्यर्थः । नमयति दण्डं देवदत्तो, नमते दण्डः स्वयमेव । कर्मवद्भावबाधया तौ न भवतः । स्वयमिति किम् ? प्रस्तौति गौर्दोग्धुः, कौशलेन नमति पल्लवो वा तेन ॥ छ ||
समुदायममरग्रन्थे, फलवति उद्वाहे उपयम्, उपाद्यम् । स्वीकारे आङीयमह नवे कर्मणि स्वाङ्गकर्मकौ च । अग्रन्थे समुदाङेऽयमफलवत्त्वे रुचादिभाक् । स्वीकारे तूपपूर्वोऽयं आङः स्वाङ्गौ च यमहनौ । संयच्छते व्रीहीन्, उद्यच्छते भार, आयच्छति वस्त्रम् । ग्रन्थे तु वैद्यश्चिकित्साग्रन्थमुद्यच्छति, ग्रन्थे उद्यति इत्यर्थः । अफलवत्त्वे परस्य वस्त्रं संयच्छति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org